SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ [ है० ८.२.९९ ] .. तृतीयः सर्गः 1 ९५ पिअ - कुसुम - पयर - पूरिअ - कुसुम-प्पयरो पमुक्क-मेर - सिरी । तेल्ल-सणिवालि-कुलापम्मुको आसि वेइल्लो ॥ ४५ ॥ कोल्ला-सोत्त-पडिच्छन्दीकय-रय - सेव्व - धम्म-सलिलाण । पुष्अि - लवली जाया सेवा - जुग्गा मयच्छीणं ॥ ४६ ॥ महु-नक्ख-आउह-नह व्व आसि सारङ्गि - वत्थ- कन्तीहं । छमरुह - रयण- पलासे कुसुमाइँ सलाह - पत्ताई ॥ ४७ ॥ ४५. प्रियः केशकलापादिसौरभ्याय अभिप्रेतः कुसुमप्रकरो येषां ते तथा तेषां पूरितः संपादितः कुसुमप्रकरो येन । प्रमुक्तमेर श्रीः निरवधिसमृद्धिः । तैलवत् स्निग्धम् अरूक्षकान्ति यद् अलिकुलं तेन मधुपानलोभाद् अप्रमुक्तः विचकिल आसीत् ।। [हर - खन्द हर - क्खन्दो ] । कुसुम-पयर कुसुम-पयर । “समासे वा” [९७] इति द्वित्वम् || बाहुलकाद् अशेषादेशयोरषि । पमुक्क । पम्मुक्क इत्यादि ॥ ४६ कुल्या कृत्रिमा संरित् तद्रूपं यत् स्रोतः प्रवाहस्तस्य प्रतिच्छन्दीकृतं सदृशं रतसेवया धर्मसलिलं यासां तासां मृगाक्षीणां पुष्पितलवली सेवायोग्या रतिश्रमापनोदाय सेवनीया जाता ॥ CC तेल । वेइल्लो | सोत्त 1 तैलादौ [९८] इति द्वित्वम् । आर्षे । पडिसोओ। विस्सोअसिआ । ४७. मधुर्वसन्तः स एव पान्थभीषकत्वाद् नखायुधः सिंहः तस्य आरक्तकुटिलत्वेन मन्यन्ते नखा इव । शार्ङ्ग पीताम्बरस्तस्य वस्त्राणामिव कान्तिः । पीतरक्तयोः कविसमये ऐक्यात् । प्रभा येषाम् क्षमारुहा वृक्षास्तेषु सश्रीकत्वाद् रत्नम् । प्रधान इत्यर्थः । यः पलाशस्तस्मिन् कुसुमानि श्लाघापात्राणि रम्यत्वादिविषयलोकप्रशंसास्थानानि आसन् । " सेब्ब । सेवा । नक्ख । नह । “सेवादौ वा [ ९९ ] इति वा द्वित्वम् ॥ १ BC येषां पूरितः .
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy