________________
कुमारपालचरिते .. .. वम्मह-तंस-सरोवम-संझा-सुन्देर-हारि-कुंपलओ। विहलिअ-पहिओ धट्ठज्जुण-भाउ-समे वि कामकरो॥४३॥ कणिआर-तरू नव-कण्णिआर-सुन्देर-दरिअ-सब्भावो । हर खन्द-जुग्ग-कुसुमो जाओ रञ्जिअ-हर-क्खन्दो ॥४४॥ .
भिन्भलणो । “द्वितीयतुर्ययोरुपरि पूर्वः' [९०] इति द्वित्वप्रसङ्गे उपरि पूर्वः।
दिग्घा दीहं । " दीर्घ वा” [ ९१ ] इति घस्योपरि पूर्वो वा ॥ ..
४३. युग्मम् । हरस्कन्दयोर्योग्यानि पूजार्हाणि कुसुमानि यस्य अत एव रञ्जितहरस्कन्दः प्रमोदितशंकरकार्तिकेयः कर्णिकारतरुः जातः । कीदृशः । मन्मथस्य त्र्यस्रास्त्रिकोणा ये शरास्तैरुपमा येषां तानि तथा । ताम्रत्वेन संध्यासौन्दर्यस्य हारीणि [अपहर्तृणि ] कुङ्मलानि उद्भिद्यमानपत्राणि यस्मिन् स तथा । विह्वलिताः प्रियास्मरणाद् उद्वेजिताः पथिका येन स तथा । आस्ताम् अन्यस्मिन् । धृष्टद्युम्नभ्राता शिखण्डी नपुंसको द्रुपदपुत्रस्तेन समस्तुल्यः तस्मिन्नपि कामकरः सुरतेच्छोत्पादकः ॥
४४. नवानि यानि कर्णिकाराणि स्वपुष्पाणि तेषां यत् सौन्दर्य चारुता तेन दृप्तसद्भावः अन्यवृक्षपुष्पसमृद्ध्याधिक्यात् साहंकारप्रकृतिः ॥
ऊससिअ । रईसरो। तंस । संझा । कुंपलओ। "न दीर्घानुस्वारात्'' [९२] इति न द्वित्वम् ॥
सुन्देर । विहलिअ । रहोः” [ ९३ ] इति न द्वित्वम् ।। धट्ठज्जुण । “ धृष्टद्युम्ने णः [९४ ] इति न द्वित्वम् ।। कणिआर कण्णिआर । “कर्णिकारे वा” [९५] इति वा न द्वित्वम् ।। . दरिअ । " हप्ते" [९६] इति न द्वित्वम् ।