________________
[ है ० ८.२.८३]. तृतीयः सर्गः ।
अगणिअ धाइं धारी-सुआणुसरिआओं कोउहल्लेण । फुल्लन्धुअ-धत्तिं धाविआओं बाला नवं लवलिं ॥३६॥ मायन्द-निउञ्जे कूजिएहिँ अन्नाण-जाणि-मण-हरणा । मत्ता अतिण्ह-सर-सर-तिक्खण-विण्णाणिणि व्व पिगी ॥३७
क्वचिद् ऊर्ध्वम् । सव्वाणो । अकम्मसाणं ॥ क्वचित्त्वधः। दिआण । आबल्ल ॥ क्वचित् पर्यायेण । वारे दाराई । अवन्द्र इति किम् । वन्द्र । संस्कृतसमोयं प्राकृतशब्दः । अत्र उत्तरेण विकल्पोपि न निषेधसामर्थ्यात् ।।
भद्रं भद्द । “द्रे रो न वा.' [८०] इति द्रे रस्य वा लुक् ।
३६. धात्रीम् आमलकी बालधारिकां वा अगणयित्वा अनादृत्य धात्रीसुताभिः अनुसृताः पृष्ठतोनुगता बालाः कुमारिकाः । फुल्लन्धुअ इति देश्यो भ्रमरार्थः । तेषां मकरन्ददुग्धदायित्वेन धात्रीमिव नवां तत्क्षणप्रादुर्भूतकोरकत्वेन प्रत्यग्रां लवली धाविताः कुतूहलेन । पुष्पादिरामणीयकातिशयकौतुकेन तां प्रति गताः ॥
धाई.धत्ति । “ धान्याम् ” [८१] इति रस्य लुक् । पक्षे धारी ।।
३७. चूतनिकुळे आम्रगहने कूजितैः कृत्वा अज्ञाना मूर्खाः ज्ञानिनो विद्वांसः । तेषां मनसां हरणी। रणरणककृत्त्वेन वैक्लव्यकारिकेत्यर्थः । अतस्तय॑ते । अतीक्ष्णाः स्वकार्यकरणासमर्थत्वेन कुण्ठा ये स्मरशरास्तेषां तक्षिणने उत्तेजने विज्ञानिनीव विचक्षणेव । मत्ता आम्रमञ्जरीस्वादनेन पुष्टा पिकी अस्ति ॥ चूतस्य माकन्दादेशो “गोणादयः " [२.५७४] इत्यनेन । संस्कृतेपीत्यन्ये ।। तीक्ष्णं करोति “णिज् बहुलम्" [हे । ३.४ ] इति णिजि अन्त्यस्वरलोपे तीक्ष्ण्यते इति धुटि तीक्ष्णनम् ॥
अतिण्ह तिक्खण । " तीक्ष्णे णः '' [८२] इति णस्य लुग् वा ।।
. अन्नाण जाणि । “ज्ञो ञः" [८३] इति ञस्य लुग् वा ।। क्वचिन्न । विण्णाणिणि ॥