________________
कुमारपालचरिते . मज्झण्हतंरू मज्झण्ण-पुप्फ-जीविअ-दसार-वइ-पुत्तो। महु-जुव-मंसु-सरिच्छालि-गुच्छओ आसि मण-हरणो॥३८॥ हरिअन्द-रुप्पि-सरिसाण वि पहिआणं वणं मसाणं व। . रत्तीसु अराईसु वि कसिण-पलासेहि खोहयरं ॥ ३९॥
३८. मध्याह्नपुष्पैर्मध्याह्नकालविकासिभिः प्रसूनैर्जीवितः समाधिभङ्गप्रकुपितत्रिनेत्रतृतीयनेत्रज्वालया भस्मितोपि प्राणितः दशार्हपते. विष्णोः पुत्रः अनङ्गो येन स तथा । मधुयूनो वसन्ततरुणस्य श्मश्नुसदृशो दंतिकाकल्पः अलिगुच्छो भ्रमरस्तबको यत्रं स तथा मध्याह्नतरुः अत्यन्तरक्तमध्याह्नविकाशिपुष्पो वृक्षभेदो मनोहरणः अतिरम्यत्वात् सकललोकचित्तावर्जक आसीत् ॥
मज्झण्ह मज्झण्ण । “ मध्याह्ने हः” [ ८४ ] इति हस्य लुक् वा ॥ .. दसार । “ दशाहे " [ ८५ ] इतिं हस्य लुक् ॥
३९ हरिश्चन्द्रो राजर्षिः रुक्मी च रुक्मिणीभ्राता । तयोः सह• क्षाणामपि । निःप्रकम्पानामपीत्यर्थः । पथिकांनां वनं काननं श्मशानवत् पितृवनवत् । रात्रिषु अरात्रिष्वपि । अहर्निशम् इत्यर्थः । कृत्स्नपलाशैः समस्ततरुजातिपर्णैः समस्तकिंशुकैी कृत्वा क्षोभकरं प्रियावियोगवेदनाजनकम् आसीत् । श्मशानमपि पलाशैर्मांसास्वादिभिभूतशाकिनीप्रभृतिभिर्धाराणामपि भीतिम् आवहति ॥ .
मंसु । मसाणं । “ आदेः श्मश्रुश्मशाने ' [ ८६ ] इति आदेलुक् ।। आर्षे श्मशानस्य सीआणं सुसाणं इत्यपि ।। हरिअन्द । “चो हरिश्चन्द्रे' [ ८७ ] इति च इत्यस्य लुक् ।। रत्तीसु अराईसु । “ रात्रौ वा” [८८ ] इति लुग् वा ॥
रुप्पि । रत्तीसु । “अनादौ शेषादेशयोर्द्वित्वम् '[८९] इति द्वित्वम्।। क्वचिन्न। कसिण । अनादाविति किम् । खोह ॥
१ BC मज्झण्णतरू, २D पथिकानां पान्थानां वनं.