SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरिते भव्व-सरा वण-वारे सद्दिअ-विक्कव-पउत्थ-बहु-चन्द्रा। भद्रं व भद-सिरिणो पढिउं लग्गा पिगी महुणो ॥ ३४ ॥ वक्कलि-दिआण सव्वाणोव्वेय-करी अकम्मसाणं पि। आबल्ल-विरत्ताण वि दारन्ती हियय-दाराई ॥ ३५ ॥ लोभाद् आसक्ता भ्रमरालिः अलक्षि उत्प्रेक्षिता । यदुत विक्रमिकन्दर्पवीरेण पराक्रमकलितस्मरसुभटेन भल्लिर्बाणविशेषः सैव न्यासीकृता प्रस्तावे ग्रहीष्ये [इति ] स्वमित्रवसन्तर्तुप्रधाने शिरीषवृक्षे स्थापिता ॥ अक्खलिअ । सुत्त । निच्चल । अणिटुरीग्गेवि । छच्चरण। भुत्तं दुक्खोपाय । अन्तप्पायं । खग्गि । मुद्धय। “कगट०"[७७] इत्यादिना एषाम् ऊर्ध्वस्थितानां लुक् ॥ सेर । लग्गा । नासी । “अधो मनयाम्" [७८] इति मनयाम् अधःस्थानां लुक्॥ ३४. युग्मम् । वनद्वारे काननमुखे शब्दितानि कूजितव्याजेन नूनम् अधुना युष्मत्प्रेयानागमिष्यतीति कार्तितानि विक्लवानि स्मरविह्वलानि प्रोषितवधूनां वन्द्राणि [वृन्दानि ], यया सा तथा । भव्यस्वरा सती । उत्प्रेक्ष्यते । भद्रश्रियः सर्वर्तुरम्यत्वेन मनोज्ञलक्ष्मीकस्य मधोर्वसन्तस्य भद्रमिव मङ्गलवाक्यमिव पठितुं लग्ना पिकी कोकिला । अन्यापि गाथिकी ईश्वरगृहद्वारे मङ्गलं गायतीति ।। ३५. भूयः किंभूता । सर्वेषां वल्कलिद्विजानां तरुत्वक्परिधानतापसानाम् उद्वेगकरी संतापजननी । स्मरज्वरोत्पादनात् । अकल्मषाः शुभध्यानक्षिप्तपापाः तेषामपि आबाल्यं शैशवाद् आरभ्य विरक्ता भवभीरवस्तेषामपि हृदयद्वाराणि चित्तमध्यानि दारयन्ती पीडयन्ती ॥ विक्कमि । कन्दप्प । सद्दिअ । विक्कव । वक्कलि । “सर्वत्र लबराम् अवन्द्रे" [७९] इत्यूर्वाधःस्थितानाम् एषां लुक् ॥ संयुक्तानाम् उभयप्राप्तौ यथादर्शनं लोपः। १ BC °विरत्ताणं. २ BC युष्मत्प्रिया नागमिष्यन्तीति.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy