________________
[है० ८. २. ५६] तृतीयः सर्गः ।
अखलिअ-जिब्भं पइ-नाम पुच्छिआ तत्थ खलिअ-जीहाओ । मय-विहलाहिं मय-भिब्भलाओं लट्ठीहि विव्भलिआ॥२१॥ उब्भमणुद्धं च ठिआ दोलासुं विज-विजिय-कम्हारा । कम्भारजम्म-पीवल-कर-जुग्गय चरण-जुम्माओ ॥ २२ ॥ कय-बम्भचेर-भङ्गा सुन्दरेणं स-बम्हचरिआण । चल नेउर-जय-तृराहिअ-सर-सोडीर-धीराओ ॥ २३ ॥ भिप्फ । “ भीष्मे ष्म:" [ ५४ ] इति ध्मस्य फः ॥ असिलिम्ह सेफ । “ श्लेष्मणि वा” [ ५५ ] इति ष्मस्य फो वा ।। तम्बम्ब । “ ताम्राम्बे म्बः" [५६ ] इति मयुक्तो बः ॥
२१. षड्भिः कुलकम् । धरणिबृहस्पतिशिष्येण पृथ्वीपुरंदरेण । राज्ञेत्यर्थः । सकलकलाकौशले बृहस्पतिना सुराचार्यसदृशेन उपनतानि आरामिकैौकितानि वनस्पतीनि वनस्पतिफलानि यस्य स तथा । तेन वनस्पतिवने वृक्षवने,। वनं जलाद्यपीति तद्व्यवच्छेदार्थ वनस्पतिग्रहणम् । वनिता अङ्गना दृष्टाः ॥ कीदृश्यः । स्खलिताः पतिपुरतः. पतिनामप्रच्छनोद्भूतलज्जया अविस्पष्टा जिह्वा रसना यासां तास्तथा । यतो मदेन क्षीबतया विह्वला विसंस्थुला यष्टिभिर्यष्टिघातैः कृत्वा विह्वला व्याकुलीकृता अस्खलितजिह्वम् । व्यक्तम् इत्यर्थः । एवं तत्र उद्याने मदविह्वलाभिः । वयस्याभिरिति गम्यते । पतिनाम पृष्टाः॥ . .. २२. विद्यया जितकाश्मीराः कलाकौशल्येन विजितसरस्वतीदेशकश्मीरपण्डिताः । कश्मीरजन्मना कुङ्कुमेन पीतं पीतवर्ण करयुग्मं चरणयुग्मं च यासां ताः । तथा दोलासु प्रेङ्खासु उर्ध्वम् अनूय च स्थिताः ॥ काश्चिद् उपविष्टा अन्दोलयन्ति काश्चिद् ऊर्ध्वा एवेति भावः॥ ___ २३. सब्रह्मचर्याणां नियमितमैथुनसेवानां सौन्दर्येण अङ्गोपाङ्गा
१ D°कश्मीराः.