________________
कुमारपालचरिते .. धिज-गुरु-घुम्मण-समुन्नय-पय-पेरन्त-हणिअ-पजन्ते । खण-पुप्फिए असोए अच्छेरस्स वि कयच्छरिआ ॥ २४ ॥ अच्छअर-सोअमल्ला कयच्छरीआ पिअच्छरिजाण । . पल्लत्थ-दीहरोरुअमभिपल्लाणिअ-पिअ-कडीओ ॥ २५ ॥ .
द्भुतरम्यत्वेन कृत्वा कृतब्रह्मचर्यभङ्गा जनितब्रह्मव्रतलोपाः । चला नूपुरा एव जयतूर्याणि तैः आहिते स्मरस्य शौण्डीर्यं च पराक्रमो धैर्य च अकातरत्वं यकाभिः ॥ वीराणां हि जयतूरश्रवणात् समराय उत्साहधैर्ये प्रादुर्भवतः तथा मञ्जीरझङ्कारे च स्मरस्य अत्यन्तोल्लासाद् इत्थम् उक्तिः ॥
२४. धैर्येण गुरुघूर्णनं बहुभ्रमणं यस्य स चासौ समुन्नतपादश्च तस्य पर्यन्तन प्रान्तेन हतः पर्यन्तो यस्य । अत एव क्षणपुष्पिते तत्कालमेव संजातकुसुमे अशोके सति । आश्चर्ययोगात् पुमानप्याश्चर्यः । तस्यापि तादृक्कान्तादर्शनेन सकौतुकस्यापि कृताश्चर्याः । तत्कालं स्वपादप्रहारमात्रेण अशोकपुष्पोत्पादनेन जनितकौतुकान्तरा इत्यर्थः ।।
२५. आश्चर्यम् अत्यद्भुतं सौकुमार्य मृदुत्वं यासाम् । प्रियाश्चर्याणां कृताश्चर्याः उत्पादितकुतूहलाः । पर्यस्तौ पार्श्वतः क्षिप्तौ दी ऊरू सक्थिनी यत्र इत्येवम् अभिपर्याणिताः पल्ययनीकृताः प्रियाणां कट्यो यकाभिस्तास्तथा ॥ जिब्भं जीहाओ । “ ह्वो भो वा" [ ५७ ] इति बस्य भो वा ॥ विहलाहिं भिब्भलाओ विब्भलिआ । “ वा विह्वले वौ वश्च" [५८] इति ह्वस्य भो वा तत्संनियोगे च वेवस्य वा भः ॥
उब्भं अणुद्धं । " वो " [ ५९ ] इति भो वा ।। कम्हारा कम्भार । 'कश्मीरे म्भो वा' [६० ] इति म्भो वा ॥ जम्म । “न्मो मः” [ ६१ ] इति न्मस्य मः । अधोलोपापवादः ॥
१BC °सोमला.