________________
८४
कुमारपालचरिते
सो विबुहफ-सीसो बुहप्पई सो वि तत्थ ओच्छरिओ । निप्पहिअ-तिअस-लीलं दोला - लीलोसवं दहुं ॥ १९॥ विरहिअ - भिष्फं असिलिम्ह - कण्ठयं विगय- सेफ - कण्ठेहिं । तम्बम्ब-दलोत्तंसं दोलिर - तरुणीहि अह गीअं ॥ २० ॥
स चासौ नृपश्च तेन सदृशं यौवनं गुणाश्च येषां तैर्युवभिः परस्परम् अन्योन्यं स्पर्धा अभिभवेच्छा यत्र तद् यथा भवति एवम् अन्दोल्यते अस्याम् इत्यन्दोला प्रेङ्खा कृता ॥
1
कुम्पलं। रुप्पिणि । “जक्मोः " [५२] [इति]पः ॥ क्वचित् च्मोपि | रुच्मि||
१९. अथ वसन्तक्रीडापीडं दोलाविलासं गाथाष्टकेन वर्णयति । सोपि भूमण्डलाखण्डलत्वेन प्रसिद्धोंपि बृहस्पतेः बृहस्पतिनामोपाध्यायस्य शिष्यः श्रीकुमारपालनृपः सोपि तदुपाध्यायत्वेन विशदप्रज्ञार्द्धयुक्तत्वेन च उत्कृष्टोपि बृहस्पतिः तत्र उद्याने निष्प्रभिताः स्वातिशयात् पराभूतास्त्रिदशानां लीलाः क्रीडा येन तत् तथाभूतं दोलालीलोत्सवं द्रष्टुम् अवस्तृतः आगतः । अपिशब्दः समुच्चये ॥
पुष्अि । फ । " पस्पयोः फः " [ ५३ ] इति फः || बाहुलकात् क्वचिद् वा । बुहम्फइ । बुहम्पई ॥ क्वचिन्न | परोप्पर । निप्पहिअ ||
२०. विरहितं त्यक्तं भीष्मं श्रुतिकटुकत्वं येन तत् । सुकुमारम् इत्यर्थः । अथवा विरहितानां वियुक्तानां भीष्मं भयावहं विरहोद्दीपकत्वात् । अविद्यमानः श्लेष्मा कफो यत्र स तथा एवंभूतः कण्ठो यत्र । ताम्राणि यान्याम्रदलानि तेषाम् उत्तंसः आपीडो यत्र तद् यथा भवति एवम् । विगतश्लेष्मकण्ठैः । तरुणैः सहेत्यर्थात् । दोलयन्तीत्येवंशीला दोलयियः । ताश्च ताः तरुण्यस्ताभिः अथ दोलाध्यारोहानन्तरं गीतं गीयते स्म ।। कान्तैः सह दोलाध्यारूढाभिस्तरुणीभिर्गीतं कृतम् इत्यर्थः ।।
१ BC स्पर्धा यत्र अन्दोलने तद्.