SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरिते मुह - गड- निबुड्डेहिं व उच्च - विअड्डि डिएहिं पिजन्तो । छड्डिअ-मलउज्जाणो मड्डि - वेल्ल - विच्छड्डो ॥ ९ ॥ रय-संमह - सम-हरो कवड्डि-सिर- सरिअ-सलिल-सीअलओ । लंघिय - गडवाहण-पुरो मयण - गद्दहिअ - लोओ ॥ १० ॥ मलयाचल-कण्डलिआ - आउह - सालाउ भिण्डिवालो व्व । ठड्डेण वुड्ड-जग-जय- छिहाइ गहिओ महु-भडेण ॥ ११॥ ८० मन्मथसंदष्टेषु इष्टाघातः कामार्तप्राणिपीडाप्रद इत्यर्थः । मधोर्वासन्तस्य कार्यकरणाद् औष्ट्रिकः । भृत्य इत्यर्थः ।। ९. मुखस्य गर्तोपचाराद् बाहुल्यम् । तत्र निमग्नैरिव । अनवरत - सुरतव्यासक्तैरित्यर्थः । उच्चा चासौ वितर्दिश्च वेदिस्तत्र स्थितैर्मत्तवारणभूमिगतैः पीयमानो रतक्लमापनोदार्थं सेव्यमानः । छर्दितं तदानीं दक्षिणस्या उत्तरस्यां गमनाद् वान्तम् । त्यक्तम् इत्यर्थः । मलयोद्यानं येन । मर्दितः अन्तर्भ्रमणेन कदर्थितः विचकिलानां विच्छर्दो विस्तारो येन स तथा ॥ १०. रतसंमर्दात् सुरतासक्तेः श्रमः खेदस्तस्य हरो विध्वंसकः । यतः किंभूतः । कपर्दी ईश्वरः तस्य यच्छिरस्तत्र या सरिद् गङ्गा तस्या यत् सलिलं तद्वत् शीतलः । लङ्घितं गर्दभवाहनस्य रावणस्य पुरं लङ्काख्या नगरी येन । मदनेन गर्दाभितो गर्दभवद् आचरति स्म लोको यत्र स तथा ॥ ११. मलयाचलकन्दरिकैव आयुधशाला तस्या भिन्दपालः शस्त्रविशेषः स इव स्तब्धेन साहंकारेण वृद्धा महती या जगज्जयस्पृहा तयाँ मधुभटेन वसन्तवीरेण गृहीतः ॥
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy