________________
[है० ८.२.२९] .. तृतीयः सर्गः
कामिणि-धुत्तिम-वत्ता-निवत्तणो वल्लि-नईण नडो । पयडिअ-वम्मह-वट्टो सिढिलिअ-वासन्तिआ-वेण्टो ॥६॥ विरहिणि-विसण्ठुलट्ठी-करणो रइणाह-रइ-महु-चउट्ठो । कामहत्थो सुहओ चउत्थ-पुरिसत्थगाणं पि ॥ ७॥ ठीणम्बु-सीअलो थीण-चूय-लट्ठि-महु-बिन्दु-चुम्बणओ । वम्मह-संदट्टेसुं इट्टाघाओ महुट्टिअओ ॥ ८॥ यस्मिन् । पवनेन कदर्थितानि प्रेङ्खोलितानि यानि कुसुमानि तेषां यद् रजः परागस्तेन सुरभिः सुगन्धिर्महींमृत्तिका यस्मात् स तथाभूतश्चूतो जातः ॥ पट्टण । वट्ट । पयट्ट । कवट्टिअ। मट्टिओ। "वृत्तप्रवृत्त'[२९] इत्यादिना टः॥
६. गाथादशकेन वसन्तत॒सर्वस्वभूताः सुरभिशीतमृदुगुणयुक्ता मलयानिला वर्ण्यन्ते ।। दशभिः कुलकम् । पर्यस्तलतम् इतस्ततः प्रेङ्खोलितशाखं यथा भवति एवं मलयानिलो वातो वाति स्म । कीदृशः । कामिनीनां धूर्तत्ववार्ताया मानहेतुप्रावीण्यवृत्तान्तस्य निषेधकः । मलयानिले हि वाति निर्विचार तासां प्रियाभिसरणात् । वल्लय एव नर्तक्यस्तासु नटः पल्लवकरप्रेङ्खकत्वेन नृत्योपाध्यायः । प्रकटितमन्मथवार्तः प्रख्यापितकन्दर्पोदन्तः शिथिलितानि कम्पनाद् अदृढीकृतानि वासन्तिकावृन्तानि माधवीलताप्रसवबन्धनानि येन स तथा ॥
७: विरहिणीनाम् अचैतन्याङ्गसादादिकृत्त्वेन विसंस्थुलास्थिकरणः । रतिनाथरतिमधूनां कन्दर्पतत्प्रियावसन्तानां पृष्ठानुचरत्वेन चतुर्थः । कामस्य अर्थः प्रयोजनम् अर्थो धनं यस्य । चतुर्थपुरुषार्थगानामपि मोक्षमार्गप्रवृत्तानामपि शरीरसंतापनिर्वापणात् सुखदः ॥ ..
८. स्त्यानाम्बु हिमं तद्वच्छीतलः । स्त्याना घना ये चूतयष्टिमधुबिन्दवः आम्रलतामकरन्दविग्रुषः तेषां चुम्बनः अन्तर्वहनात् स्पर्शकः ।
१ BC °सर्वर्तु २ BC माने हेतु'. ३ 0 प्रावीण्यं. ४ C प्रसूनप्रसव', ..