________________
कुमारपालचरिते 'अहिमज्जु-जणय-अहिमञ्जु-माउ-भायाहिमचु-पमुहाण ।
अहिउच्चिआसि मयणो वणवञ्झासज्झ-कुसुम-सरो ॥३॥ . गय-सज्झसस्स मयरद्धयस्स कुसुमज्झओउ-दुइअस्स । कङ्केल्लि-पल्लव-मिसा आसि पयावो समिज्झन्तो ॥४॥ पट्टण-बहु-वलयाइअ-बट्ट-पयट्टालि-मण्डलो चूओ। पवण-कवट्टिअ-कुसुम-रज-सुरहि-महि-मट्टिओ जाओ ॥५॥
३२मत्त ।
. .
३. आभिमन्युजनकश्च अर्जुनः अभिमन्युमातृभ्राता बलदेवः ' अभिमन्युश्च ते प्रमुखा धुर्या येषां वीराणां ते तथा तेभ्यः अवन्ध्याः । कार्यसाधकत्वेन सफलाः असह्याः क्षन्तुम् अशक्याः कुसुमान्येव शरा यस्य स तथाभूतो मदनः आधिक एव त्रैलोक्यवशवर्तिकारित्वेन अभ्यर्हित एवासीत् । अधिकापेक्षया• अनुपात्तक्रियेपादाने पमुहाणेति । पञ्चमीप्राप्तौ " क्वचिद् द्वितीयादेः ” [ ३. १३४ ] इति षष्ठी ॥
अदिमज्जु अहिमञ्ज । “ अभिमन्यौ जौ वा" [२५] इति जो अश्च वा। पक्षे । अहिमन्नु ॥ .. ४. गतसाध्वसस्य स्वरिपोरीश्वरस्यापि तदाज्ञाविधायित्वेन निर्भयस्य मकरध्वजस्य कुसुमान्येव ध्वजचिह्नं यस्य स चासौ ऋतुश्च स द्वितीयो यस्य । वसन्ततुयुक्तस्येत्यर्थः । कङ्केलिपल्लवमिषात् प्रतापः समिन्धान समन्ताद् दीप्यमान आसीत् ।। प्रतापो हि आरक्तो वर्ण्यते । अशोककिशलयानि च तथा । इतीत्थम् उत्प्रेक्ष्यन्ते ।
अणवत्र्झ । असन्झ । सज्झसस्स । “साध्वसध्यह्यां झः”[२६] इति झः।। द्धयस्स ज्झओ । " ध्वजे वा" [२७] इति झो वा ॥ समिझन्तो । “ इन्धौ झा" [२८] इति इन्धौ धातौ झा ॥
५. पत्तनमेव वधूः कान्ता तस्या वलयायितं कङ्कणवद् आचरितम् यतः वृत्तं यथा भवति एवं प्रवृत्तं गन्तुम् उद्यतम् आलिमण्डलं