________________
कय-वम्मह-सामच्छं वर- सामत्था कओसवमुऊहि । ओ निवो उच्छुओ दहूं ॥ १ ॥ जय- छिह-ऊसुअ-मयणो अवज्ज-निष्पिह-सभज - जुव - लोओ | अलि-सेज- चूअ - कलिओ तओ पयट्टो वसन्त - उऊ ॥ २ ॥
१. कृतमन्मथसामर्थ्यम् उद्दीपन विभावत्वाज्जनितकन्दर्पप्रकर्षम् वरसामर्थ्यात् देवताप्रसादोत्कर्षाद् ऋतुभिर्वसन्ताद्यैः कृतोत्सवं युगपत् तत्तत्पुष्पफलप्रवालपटलैः - प्रारब्धमहामहिम । नयनानां रम्यत्वाद् उत्सवम् उद्यानं क्रीडाकाननम् उत्सुकः सोत्कण्ठो नृपो द्रष्टुम् ईक्षितुं
गतः ॥
२. तत्र युगपत् सर्वर्तुप्रादुर्भावेपि वाचः क्रमवृत्तित्वाद् ऋतुषु च वसन्तस्य सम्राट्कल्पत्वाद् अष्टाशीत्या गाथाभिरादौ तमेव वर्णयति ॥ जयस्पृहायां धर्मार्थादिपराभवेच्छायाम् उत्सुको मदनो यत्र । अवधे कुव्यापारे निःस्पृहाः विमुखाः सभार्या युवलोकास्तरुणपुरुषा यत्र । अलिशय्य़ा भ्रमरवसतयो ये चूता आम्रवृक्षास्तैः कलितः । ततः देवतावरानन्तरं वसन्तऋतुः प्रवृत्तः ।।
सामच्छं सामत्था | कओसव नयणोच्छव । उच्छुओ ऊसुअ । स्कोत्सवे वा " [२२] इति छो वा ॥
छिद्द | << 37 स्पृहायाम् [ २३ ] इति फस्य अपवादश्छः || बाहुलकात् कचिद् अन्यदपि । निष्पिह ॥
अवज । सभज । सेज ।
" द्यय्यर्या जः
" सामर्थ्यो
""
[ २४ ] इति एषां जः ॥