________________
[है० ८.२.२९] तृतीयः सर्गः ।
दड्डोजीविअ-मयणो विरहिणि-नीसास-बुडि-परिविद्धो । अविअड्ड-असड्ड-अणिड्डीणं पि विइण्ण-रइ-सद्धो ॥१२॥ रिद्धिं पत्तो कम्पिअ-लवली-मुड्डो वसन्त-मुद्धन्नो । अड्डद्धीकय-माणिणि-माणो पज्जुण्ण-दिण्णाणो ॥ १३ ॥ पण्णास-गुणं मयणं पण्णरह-गुणं महुं च पयडन्तो।। मन्तुमइ-मन्नु-दलणो समत्त-लय-तम्ब-वित्थरणो ॥१४॥ अविरहि-विरहि-थवातव-पत्तं पल्लस्थ-लयमपल्लट्टो । उच्छाहकरोणुत्थारयाण मलयाणिलो वाऊ ॥१५॥
१२. दग्धोपि ईश्वरतृतीयनेत्रार्चिषा भस्मसात्कृतोपि उज्जीवितः शरीरीकृतो मदनो येन विरहिणीनिःश्वासवृद्ध्या परिवृद्धः विस्तृतः । अविदग्धाश्च कामप्रवृत्तौ अनिपुणाः अश्रद्धाश्च तदनिच्छवः अनृद्धयो दरिद्रास्तेषामपि वितीर्णरतिश्रद्धः उत्पादितसुरताभिलाषः ।। . १३. ऋद्धिं सौरभ्यादिसंपदं प्राप्तः कम्पिता अन्दोलिता लवलीलतानां मूर्धानः शिरांसि येन । वसन्ते मूर्धन्यः प्रधानः । अर्धाकृतः रतोत्कण्ठाकरणात् खण्डशो विहितो मानिनीनां मानो येन । प्रद्युम्नस्य कन्दर्पस्य दत्ता आज्ञा येन । जनानाम् इति शेषः । कन्दर्पराज्यम् अधुना • जनेषु उदघोषयद् इत्यर्थः ।। . १४. पञ्चाशद्गुणं मदनं पञ्चदशगुणं मधुं च प्रकटयन् । तयोराधिक्यं जनयन्नित्यर्थः । मन्युमतीनां प्रियविप्रियेण सक्रोधानां प्रेयसीनां मन्युदलनः । सख्यादिचाटुकारम् अन्तरेणापि प्रसादनकारक इत्यर्थः । समस्तलतास्तम्बानां विस्तरणः अनुकूलत्वेन वृद्धिजनकः ॥
१५. अविरहिणश्च युवतियुक्ताः विरहिणश्च तद्विपरीताः । तेषां
१ B omits 'वसन्ते...आज्ञा येन. २ C संखत्सो; B wanting. 6 [ कुमारपालचरित]