________________
[ है ० ८.२.२] .
द्वितीयः सर्गः ।
आरत्तियमह काउं मुक्क-मलो अपरिमुत्त-माउको । तव सत्तं गुण- सक्कं माउत्त- निहिं गुरुं पणओ ॥ ८२ ॥ विअ - डक्कोर - दट्ठ- जीव-जीवाउ-चरण-रेणु-कणं । लुक्क कलिं लुग्ग-भवं तं समुपासिअ गओ राया ||८३ || लक्खण - पुण्णमखीणं अछीण-गमणं अझीण-तणु तेअं । खन्धाइ - सत्त-पिहुलं पोक्खर - गन्धं धुवावत्तं ॥ ८४॥
७१
८२. अथ अभीप्सितार्थसाधकशासनदेवीवचनानन्तरम् आरात्रिकं कृत्वा मुक्तमलः गतविकल्पकालुष्यः । अपरिमुक्तमृदुत्वः आर्जवयुक्तो राजा श्रीकुमारपाल : ' तपसि " अणसणमूणोअरिआ " इत्यादिसिद्धान्तप्रसिद्धे शक्तं समर्थम् । तन्निष्ठम् इति यावत् । गुणेषु क्षान्त्यादिषु शक्तं मृदुत्वनिधिं गुरुं प्रणतः प्रणमति स्म ॥
८३. वृश्चिकदष्टाश्व उरगदष्टाश्च ये जीवास्तेषां जीवातवो जीवनौषधानि चरणरेणुकणा यस्य । रुग्णः सावद्यव्यापारप्रध्वंसकत्वेन भग्नः कलिः कलहः कलिकालो वा येन । रुग्णभवं मुक्तपदवीप्रदाभयदानादिधर्मानुष्ठानविधापनेन निर्दलितचातुर्गतिकसंसारं तं गुरुं समुपास्य संसेव्य । तदन्तिके देशनाश्रवणादिधर्मानुष्ठानं कृत्वेत्यर्थः । राजा श्रीकुमारपालो गतः देवगृहान्निःसृतः ॥
" संयुक्तस्य " [१] । अधिकारोयम् " ज्यायाम् ईत् ” [२.११५] इति
यावत् ॥
८८
• मुक्क-मुत्त । माउको माउत्त । सत्तं सकं । डक्को दट्ठ | लुक्क लुग्ग | शक्तमुक्त [२] इत्यादिना एषु को वा ॥
""
८४. अथ नृपाध्वारोहार्थम् आनीतस्य अश्वोरसस्य गाथासप्तकेन वर्णनम् आह । सप्तभिः कुलकम् । अश्वम् आरूढः । राजा इति प्रक्रमात् । कीदृशम् । लक्षणपूर्ण शालहोत्रशास्त्रोक्तसमस्तप्रशस्यचिह्नभृतम् अक्षीणं परिपूर्णसर्वाङ्गोपाङ्गम् अक्षीणगमनम् ॥
१ BC विञ्छुअ. २ BC जीवाश्च तेषां; D ते जीवास्तेषां.