________________
कुमारपालचरिते अह भणिअं खे सासण-देवीए एवमेव मा जूर । आवत्तमाण-जस तुममेमेअ किमत्तमाण-मणो ॥ ८०॥ . गुणि-पावारय-पारय दुह-अड-चिन्तावडेसु मा पडसुः । . होही तुह उजाणं सई सव्व-रिऊहि कय-कुसुमं ॥८१॥ .
८०. अथ इत्थं चिन्तानन्तरं खे गगनाङ्गणे शासनदेव्या भणितम् । आवर्तमानं त्रिलोक्यां बम्भ्रम्यमाणं यशो यस्य । तस्य आमन्त्रणम् । हे आवर्तमानयशः त्वम् एवमेव मा खिद्यस्व निरर्थकं मा दैन्ययुक्तो भव । तथा एवमेव किम् आवर्तमानमनाः सर्वर्तुकुसुमपूजा भविष्यति वा न वेति किं चिन्तापरचित्तः ॥
८१. खेदचिन्तयोर्निरर्थकत्वमेवाह । गुणिन एव प्रावारकाः पटास्तेषां प्रावारक अनुपमागणितगुणयुक्तत्वेन आच्छादक । दुःखं खेदः तदेव अवटश्च कूपः । चिन्ता अभीप्सितार्थं प्रति संदेहः सैव अवटश्च । तयोस्त्वं मा पत मा निमज्ज ।। ननु किमिति भगवत्या एवं निषिध्यते तत्राह । तव उद्यानं भवेत् आरामवनं सदा सर्वकालं सर्वर्तुभिः कृतकुसुमं जनितप्रसून भविष्यति । मम प्रसादाद् इति शेषः ॥
जाव जा ता । ताव । देव-उले देउल । जीविअ जाअं । एवमेव एमेअ। आवत्तमाण अत्तमाण । पावारय पारय । अड चिन्तावडेसु । " यावत्ताव" [२७१ ] इत्यादिना यावदादिषु वकारस्य अन्तर्वर्तमानस्य लुग् वा ।। अन्तरित्येव । एवमेवेति अन्त्यस्य न ।।
इति प्राकृतव्याश्रये महाकाव्ये अष्टमस्याध्यायस्य उदाहरण
प्रतिपादनद्वारेण प्रथमः पादः संपूर्णः ।।।
१ B किमित्त; C किमत्त°. २ D सय.