________________
[है० ८.१.२७०] द्वितीयः सर्गः । जिण-पाय-वडण-गुरु-पा-वडणाई चइअ तत्थ उब्भ-जणो पुलयडरेहि कलिओ उउम्बरो उम्बरेहिं व ॥ ७७॥ जाव निवो कय-पूओ आरत्तिय-मङ्गलं न जा कुणइ । ता देव-उले मरुवय-पूअं अणुसोइउं लग्गो ॥ ७८ ॥ मइ ताव देउलमिमं निम्मविअं सहल-जीविअमणेण । सव्व-रिउ-कुसुम-पूआ नो जइ जी न मे सहलं ॥ ७९ ॥
चरणान्तिकम् इत्यर्थः । दुर्गादेवीशस्य पादपीठं मुक्त्वा गणा नन्दिवन्दिप्रभृतयस्ते च ते ते गन्धर्वाश्च किंनरास्तद् गीतं श्रोतुं कर्णाञ्जलिभिः पातुम् अवस्तृता आगताः ॥ . __७७. जिनपादपतनगुरुपादपतनानि त्यक्त्वा तत्र रङ्गस्थाने ऊर्ध्वजनः आसीत् । किंभूतः । पुलकाङ्करैः कलितो युक्तः । किंवत् । यथा उदुम्बरो जन्तुफलः उदुम्बरफलैरिति ।। .: दुग्गावी दुग्गा एवी । पा-वाढ पाय वीढं। पाय-वडण पा-वडणाई । उउ. म्बरो उम्बरेहिं । "दुर्गादेवी" [२७० ] इत्यादिना दस्यान्तर्मध्ये लुग् वा । अन्तरिति किम् । दुर्गादेष्याम् आदौ मा भूत् ॥
७८.. यावत् कृतपूजो नृपः तथा आरात्रिकेन सहितं मङ्गलं आरोत्रिकमङ्गलम् । आरात्रिकं माङ्गलिक्यं चेत्यर्थः । न यावत् करोति तावद् देवकुले कुमारविहारे मरुबकपूजाम् अनुशोचितुं लग्नः । पूजाविषयं पश्चात्तापं कर्तुं प्रवृत्तः ॥
७९. अनुशोचनमेवाह । मया तावद् देवकुलम् इदं निर्मापितम् । अनेन च सफलं जीवितं निर्मापितम् । मम चेत्यर्थात् । परं सर्वर्तुकुसुमपूजा नो यदि चेन्न तदा जीवितं न मे सफलम् ॥ देवगृहविधानाजीवितं सफलमपि तथाविधपूजाया अभावाद् नातिशयेन सफलम् इति यावत् ॥
१D आरत्रिकेन. २ D आरात्रिक