________________
कुमारपालचरिते सक्य-वारण-पाइअ-वायरण-पउत्त-सह-कय-गीए । . आउजिअ-पायारे रङ्गे पुण आसि गुणि-पारो ॥७४॥ तत्थागओ अ कालायस-सम-कालास-अहिअ-हिअओ जो । सो केलि-किसलयासोअ-किसल-कोमल-
हिओ आसि ॥७५॥ दुग्गावी-पा-वीढं दुग्गा-एवीस-पाय-वीटं च ।
मोत्तुं गण-गन्धव्या तं गीअं सोउमोच्छरिया ॥७६॥ दुर्लभं राजकुलस्य नरनाथयूथस्य प्रियं श्रोत्रसुखकृत्त्वेन हृद्यम् अद्वितीयं तस्या वरमुखरगायन्या गीतं श्रोतुं राजकुलविहारे कुमारविहारे को नायातः । किं तु सर्वोप्यायातः ॥
भायण भाणं । दणु दणुअ । रा-उल राय-उल । “ लुग्भाजन " [२६७ ] इत्यादिना सस्वरस्य जस्य लुग् वा ॥
७४. संस्कृतव्याकरणप्राकृतव्याकरणयोः प्रयुक्ताः प्रतिपादिता ये शब्दास्तैः कृतं गीतं यत्र आतोद्यिकानां मृदङ्गादिवादकानां प्राकारो मण्डलं यत्र तस्मिन् रङ्गे पुनः गुणिप्राकार आसीत् ।। संगीतकाकर्णनाय समागतसमस्तलोकेपि प्रासादे रङ्गभूमौ विचक्षणा एव उपवेशिता इति पुनःशब्दार्थः ॥
७५. तत्र च रङ्गे कालायसं लोहजातिस्तेन समं कालायसाद् अधिकं च हृदयं यस्य स तथाविधो य आगतः स केलिकिसलयाशोककिशलयवत् रम्भाकङ्केल्लिदलवत् कोमलहृदय आसीत् ॥ चित्तचमत्कारकारिजिनेन्द्रगुणस्फीतगीतश्रवणात् सोपि साहृदयः संवृत्त इति यावत् ॥
वारण वायरण । पायारे पारों । आओ तत्थागओ। " व्याकरणप्राकारागते कगोः" [२६८] इति को गश्च लुग् वा ।। ___ कालायस कालास । किसलया किसल हिअओ । हिओ। " किसलय" [२६९ ] इत्यादिना यस्य लुगू वा ॥
७६. दुर्गादेव्याः गौर्याः पादपीठं पादासनम् । अत्र च सामीप्यात्