________________
[है० ८.१.२६६.] द्वितीयः सर्गः ।
६७ छमि-छत्तिवण्ण-गोरी छट्ठी भल्लि व्व पञ्च-बाणस्स। मय-छावच्छी वर-मुहर-गायणी गिहिउं तालं ॥७१॥ अमय-छिरा-महुर-सरा अमय-सिरोवम-सराहि अणुगमिआ । जिण-गाणम्मि पयट्टा गुण-भायण-दाण-भाणं तो ॥ ७५ ॥
दणु-कुल-दणुअ-कुलाराइ-दुल्लहं तीइ रा-उल-विहारे । . .. राय-उल-पियमवी गीअं सोउं न को आओ ॥ ७६ ॥ वांशिकसिंहेन । वंशवादनं शिल्पम् अस्य वांशिकश्रेष्ठेन दाहार्तानां दाहस्य हरणः श्रुतिसुखकृत्त्वेन संतापस्य विनाशको वंशो वेणुर्वादितः सुधावत् मक्कोलवत् निर्मलान् जिणगुणान् गातुम् ।।
सिंघेणं सीहेण । “ हो घोऽनुस्वारात् '' [ २६४ ] इति हस्य घो [वा] । क्वचिद् अननुस्वारादपि । दाघत्त दाह ॥ __७१. युग्मम् । ततः, वीणावेणुवादनानन्तरं वरमुखरगायनी तालं कांस्यिकां गृहीत्वा जिनगाने प्रवृत्ता । कीदृशी । शमिसप्तपर्णवत् शमीसप्तच्छदपुष्पवद् गौरी गौरवर्णा । पञ्च बाणाः उन्मादनमदनमोहनतापनशोषणाख्याः शरा यस्य स पञ्चबाणः कन्दर्पस्तस्य षष्ठी भल्लिरिक । तया हि बाणैरिव स सर्व स्ववशं करोतीति भावः । मृगशावस्येव आक्षिणी यस्याः ।।
७२. अमृतशिरावत् सुधाधारावत् मधुरः स्वरो यस्याः सा तथा अमृतशिरोपमः स्वरो यासां ताभिः अनुगता । आलतिकाक्षणे अन्यगायनीभिः कृतपृष्ठनिनादेत्यर्थः । गुणभाजनानां गुणपात्राणां यद् दानं जिनसद्गुणोत्कीर्तनोत्थपरितोषाद् धनवितरणं तस्य भाजनम् ।।...
छुह । छमि । छत्तिवण्ण । छट्ठी। छावच्छी । “ षट्शमी" [२६५] इत्यादिना आदेर्वर्णस्य छः ॥ .
छिरा सिरो। " सिरीयां वा" [२६६ ] इति आदेश्छो वा ।। . . ७३. दनुजकुलस्य दैत्यसमूहस्य दनुजकुलारातयो देवास्तेषां च .१ BC कांश्यिकां. २ BCD शिरायां.