SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरिते .. तइआ वणिअ-सुसाहिं निव-सुण्हा-वल्लहाओं ता दिट्ठा । पाहाण-पुत्तिआहि व पासाण-त्थम्भ-लग्गाहिं ॥ ६८॥ वञ्जिअ-दस-विह-धाऊ जणणी लासस्स दह-विहस्सावि । दिवसे दिवहावगमे अ सुह-यरी वाइआ वीणा ॥ ६९॥ रञ्जिअ-नर-सिंघेणं वंसिअ-सीहेण वाइओ वंसो। । दापत्त-दाह-हरणो छुह-धवले जिण-गुणे गाउं ॥७॥ ६८. तदा प्रेक्षणीयकक्षणे नृपस्नुषाणां राजवधूनामपि वल्लभाः विलोकनाय ईप्सितास्ता नर्तक्यः पाषाणस्तम्भे लग्नाभिः संकीर्णत्वेन प्रेक्षणीयकस्य दुर्दर्शत्वेन संबद्धाभिर्वाणिजस्नुषाभिः दृष्टाः । नर्तनरामणीयकलोलुपत्वेन निर्निमेषनिश्चलत्वादिना तथावस्थानात् पाषाणपुत्तिकाभिरिवेत्युत्प्रेक्ष्यते ॥ सुसाहिं सुण्ह । “ स्नुषायां ग्रहो न वा" [२६१] इति षस्य ण्हो वा ॥ ६९. व्यञ्जितः तत्प्रदेशकोणसारणया प्रकटितो दशविधो दशभेदो धातुः भरतादिशास्त्रप्रसिद्धः आलत्तिकौविशेषो यया । दशविधो गेयपदाद्यङ्गभेदेन दशप्रकारः । यदुक्तम् गेयपदं स्थितैपाठ्यं आसीनं पुष्पगण्डिका । प्रच्छेदकस्त्रिमूढं च सैन्धवाख्यं द्विमूढकम् ॥ ‘उत्तमोत्तमकं चैव उक्तप्रत्युक्तमेव च । इति दश लास्याङ्गानि । तस्यापि लास्यस्य जननी उत्पादिका। तत्स्वरानुसारेण नर्तकीनां नर्तनात् । दिवसे दिवसापगमे च । अहर्निशम् इत्यर्थः। अमृतास्वादकल्पस्वरकलितत्वेन सुखकरी वीणा वादिता काणिता ॥ पाहाण पासाण । दस दह । “दशपाषाणे हः" [२६२] इति शषयोर्यथादर्शनं हो वा ॥ दिवसे दिवहा । " दिवसे सः" [२६३] इति सस्य हो वा ।। ७०. रञ्जितः आह्लादितः नरसिंहः कुमारपालराजो येन तेन ___ 1 BC omit 'रामणीयक...त्प्रेक्ष्यते'. २ C आलतिक्य'. ३ स्थितं. ४ BC पाठ्यं मासीनं.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy