SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ( ६० ) 'क्य-या-शीयें ।४।३।१०। इति गुणः ॥६॥ नाम्नो द्वितीयाद् यथेष्टम् ।४।४।७। स्वरादे मधातोरन्यस्य द्वित्वभाजः द्वितीयादारभ्यकस्वरोंऽशो यथेष्टं द्विः स्तात् । अशिश्वायिषति । अश्वीयियिषति । अश्वीयिषिषति ॥७॥ द्वितीयादिति-'गम्ययपः ।२।२।७४। इति पञ्चमी। यथेष्टम्-यो यः .. इष्ट: 'योग्यतावीप्सा० ।३।१।४० इत्यत्ययीभावः । अश्वमिच्छतीति ‘अमा- .: व्ययात् क्यन्' ।३।४।२३। इति क्यन् 'क्यनि' ।४।३।११२। सूत्रेण ईकारः, . अश्वीयितुमिच्छतीति=अशिश्वीयिषतीत्यादि ॥७॥ अन्यस्य ।४।१।। स्वरादर्नामधातोरन्यस्य द्वित्वभाजः एकस्वरोंशो यथेष्टं प्रथमादिद्विः स्यात् । पुपुत्रीयिषति । पुतिनीयिषति । पुत्रीयियिषति । पुत्रीयियिषति ॥८॥ पुत्रमिच्छतीति पुत्रीयति पुत्रीयितुमिच्छतीति सनि पुपुत्रीयिषतीव्यादि । द्वितीयादित्यधिकारो नेष्ट इति प्रथमादिरित्युक्तम् ॥८॥ कण्ड्वादेस्तृतीयः ।४।१। कण्ड्वाद्वित्वभाज एकस्वरोंऽशस्तृतीय एव द्विः स्यात् । कण्डूयियिषति । असूयियिषति ॥६॥ कण्ड्ग गात्रविघर्षणे इति 'धातोः कण्ड्वादेर्यक् ।३।४।८॥ इति कण्डयितुमिच्छति ॥६॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy