________________
( ८६ )
. नन्वन सनि यङि च निमित्तभूते एकस्वरस्य द्वित्वमिति सप्तमी कथं नादायीति चेत्सत्यम् षष्ठीनिर्देशः उत्तरार्थः तेनोत्तरेण प्रतीषिषतीत्यादि सिद्धम् । चकारः पूर्वोक्तनिमित्तसमुच्चयार्थ उत्तरार्थ एव तेनोत्तरत्र परोक्षा. सन्नन्तयङन्तानां च यथासंभवं द्वित्वं सिध्यति । तिजि क्षमानिशानयोः 'गुप्तिजो०' "३।४।५॥ इति सन् ॥३॥
स्वराद्वितीयः ।४।३॥४ स्वरादेव्युक्तिभाजो द्वितीयोऽश एकस्वरो द्विः स्यात् । अटिटिपति । अशाश्यते । प्राक्त स्वरे स्वरविधेरित्येव । आटिटत् ॥४॥ आटिटत् इत्यत्र पूर्व द्वित्वं पश्चात् गेहूं क् “णिश्रि०' ।३।४।५८। इति ङप्रत्ययः ॥४॥ .
न बदनं संयोगादिः ।४।१॥५॥ स्वरादेर्धातोद्वितीयस्यांशस्यैकस्वरस्य बदनाः संयोगास्याद्या न द्विः स्युः । उब्जिजिषति । अट्टिटिषति । उन्दिदिषति । संयोगादिरिति किम् ? प्राणिणिषति ॥५॥ संयोगादि:-"उपसर्गादः किः ५॥३॥८७। इति ॥५॥
अयि रः ।४।१।६। स्वरादेर्धातोद्वितीयस्यांशस्यैकस्वरस्य संयोगादी रो द्विर्न स्यात् । न तु रादनन्तरे यि । अचिचिषति । अयोति किम् । अरार्यते ॥६॥ अनन्तरे-“सप्तभ्याः पूर्वस्य" ।७।४।१०५॥ तच्चानन्तर्यस्यैवेति । अरायते