________________
॥ अथ चतुर्थाध्यायः॥
4.
-
द्विर्धातुः परोक्षा प्राक्त स्वरे स्वरविधेः ।४।१।१॥ परोक्षायां च परें धातुद्धिः स्यात्, स्वरादौ तु द्वित्वनिमित्त स्वरस्य कार्यात् प्रागैव । पपाच । धातुरिति किम् ? प्राशिनिंयत् । प्रागिति किम् ?, चक्रतुः । स्वर इति किम् ? जेघीयते। स्वरविधेरिति किम् ? शुशाश्व । प्राक्त स्वरे स्वरविधेरिति आद्विर्वचनमधिकारः ॥१॥ गुणरत्नावृत्तिः-पाचेत्यत्र पुनरपि द्विर्वचनं न भवति, द्विरिति वचनात् । शुशावेत्यत्र स्वरव्यञ्जनयोरुभययोरपि कार्यमुपस्थितंटवृत् पश्चात् शु इति द्विवचनम् । प्रोक्तु स्वरें स्वरविधेरिति आद्विर्वचनमधिकार अन्यथा हि आटिटत्।इत्यादि न सिध्यति पूर्व टिरति द्वित्वम्, पश्चान्, गेर्लोपः ।।१॥
आद्योऽश एकस्वरः ।४।१।२। ....... अनेकस्वरस्य धातोराद्य एकस्वरोऽवयवः परोक्षा प्रत्यये द्विर्भवति । जजागार, अचीकणत, अचकाणत, अचीकरत् ॥२॥ एकस्वरस्य॒कस्वरेंशे द्विरुक्त न किञ्चिदस्य फल मिति यद्वा एकस्वर इति सम्बन्धिशब्द: सामर्थ्यादनेकस्वरं धातुमाक्षिपतीत्याह-अनेक रबरयेति । पूर्णेण सर्वस्य द्वित्वे प्राप्ते वचनम् ॥२॥
सन्यङश्च ।४।१।३।
सन्नन्तस्य यङन्तस्य चाद्य एकस्वरोंऽशो द्विः स्यात् । तितिक्षते । ' पापच्यते ॥३॥