________________
( ८६ )
अन्ववातप्त पापः स्वकर्मणा । कत्रनुतापे चेति किम् । अतापि पृथिवी राज्ञा ॥१॥ नन्वनेन सामान्येन सानुतापेऽननुतापे च कर्तरि कर्मकर्तरि च भविष्यति किमनुतापग्रहणेनेति चेत् अनुतापग्रहणात् भावे कर्मणि च भवन्ति । अनुतापः पश्चातापः, अन्वतप्त चैत्रेण पश्चात्तापः कृतः इत्यर्थः । अन्ववातप्त पश्चात्तापं कारित इत्यर्थः ।।६१।।
णिस्नुथ्यात्यत्मनेपदाकर्मकात् ।३।४।६। ग्यन्तात् स्तुश्रिभ्यामात्मनेपदविधावकर्मकेभ्यश्च कर्मकर्तरि जिच्न स्यात् । अपोपचदोदनं चैत्रः । अपीपचतौदनः स्वयमेव । प्रास्नोष्ट गौः स्वयमेव । उदशिश्रियत दण्डः स्वयमेव । व्यकृत सैन्धवः स्वयमेव ॥२॥ आत्मनेपदविधावकमंकेभ्यः-येभ्यः कर्मप्यसति आत्मनेपदं विधीयते ते आत्मनेपदाकर्मकाः । पचति ओदनं चैत्रः तं मैत्रः प्राय अपीपचदौदनं चैत्रेण मैत्रः । अपोपचतौदनः स्वयमेव । प्रास्नावीत् गां देवदन्तः, प्रास्नोष्ट गौः स्वयमेव । उदशिश्रियत् दण्डं दण्डी, उदशिश्रियत दण्डः स्वयमेव । व्यकार्षीत् सैन्धवं चैत्रः गति शिक्षयति स्मेत्यर्थः, व्यकृत सैन्धवः स्वयमेव । विकरोतिरन्त तण्यर्थः । निचप्रतिषेधात् “स्वरग्रह०" ।३।४।६६। इत्यनेन जिट भवत्येव । उत्तरेण पृथग्योगात् जिट: प्रतिषेधो न भवति ॥६२॥
भूषार्थसन्किरादिभ्यश्च मिक्यौ ।३।४।६३। भूषार्थेभ्यः सन्नतेभ्यः किरादिभ्यो । ण्यादियश्च कर्मकर्तरि जिक्यौ न स्याताम् । अलमकृत कन्या स्वयमेव । अलंकुरुते कन्या . स्वयमेव । सन् । अचिकोषिष्ट, चिकीर्षते वा कटः स्वयमेव । किरादिः । अकोट, किरते वा पांशुः स्वयमेव । अगीट, गिरते