SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ( ८४ ) afat क्रिया यस्य तस्मिन् कर्तरि कर्मकर्तृ रूपे धातोञिक्यात्मनेपदानि स्युः अकारि, क्रियते, करिष्यते वा कटः स्वयमेव । एकधाताविति किम् ? पचत्योदनश्चैत्रः । सिध्यत्योदनः स्वयमेव । कर्मक्रिययेति किम् ? साध्वसिरिछनन्ति । एकक्रिय इति किम् ? स्रवत्युदकं कुण्डिका । स्रवत्युदकं कुण्डिकायाः । अकर्मक्रिय इति किम् ? भिद्यमानः कुशूल: पात्राणि भिनति ॥ ८६ ॥ साध्वसिश्छिनत्ति -- करणस्थक्रिययैवक्रिये न भवति । स्रवत्युदकं कुण्डिका, स्रवत्युदकं कुण्डिक्राय: ---अत्र विसृजति निष्क्रामतीति क्रियाभेदात् नैकक्रियत्वम् ||६|| पचिदुहे: । ३४८७| एकधातौ कर्मस्थक्रियया पूर्वदृष्टया अकर्मिकया सकर्मकया वा एकक्रिये कर्तरि कर्मकर्तृ रूपे आभ्यां त्रिक्यात्मनेपदानि स्युः । अपाचि, पच्यते, पक्ष्यते वा ओदनः स्वयमेव । अदोहि, दुह्यते, धोक्ष्यते, वा गौः स्वयमेव । उदुम्बरः फलं पच्यते अपक्त वा स्वयमेव । दुग्ध, अदुग्ध, धोक्ष्यते वा पयोगौः स्वयमेव ॥ ८७ ॥ , उदुम्बरं फलं पचति बायुः इति मूलप्रयोगः पचिरन्तर्भूतण्यर्थो द्विकर्मकः उदुम्बरः फलं पच्यते स्वयमेव । दोग्धि गां पयो गोपालकः इति मूलप्रयोगः, दुग्धे गौः पयः स्वयमेव इति दुहिपच्योः कर्मणि त्रिचः प्रतिषेधं वक्ष्यति तथा दुहेत्रिचं विकल्पं, किरादित्वात् 'भूषार्थ सन् ० | ३ | ४१६३ इति क्यस्य च प्रतिषेधं वक्ष्यति इति त्रिचः प्रयोगो न दर्शितः, दुहेश्च क्यस्यापि प्रयोगो न दर्शितः । अकर्मकस्येह पूर्वेणैव सिद्ध सकर्मकार्थं वचनम् ॥८७॥ न कर्मणा त्रिच | ३|४|८८।
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy