________________
( ८३ )
तनादिगणेपठित्वा भ्वादिमध्ये 'कृग्' इत्यस्य पाठ, 'करति' इति प्रयोगं शवर्थः । येषां मते कृगस्तनादौ पाठः, तन्मते 'तन्भ्यो वा तथासि न्णोश्च' |४|३|६८। इत्यनेन 'अकृत, अकृष्ट' इति रूपद्वयम् । शव् च न भवति । स्वमते तु 'अकृत, अकृथाः' इति नित्यमेव 'धुड्हस्वाल्लुगः | ४ | ३|७० | इत्यनेन सिचो लुक् ॥८३॥
सृजः श्राद्धे ञिक्यात्मने तथा | ३ | ४ | ८४ |
सृजः पराणि श्रद्धावति कर्तरि जिक्यात्मनेपदानि स्युस्तथा यथा पूर्व विहितानि । असर्जि । सृज्यते, त्रक्ष्यते वा मालां धार्मिकः । श्राद्ध इति किम् ? व्यत्यसृष्ट माले गिथुनम् ॥८४॥
तथेति वचनात् यथा भावकर्मणोः ञिक्यात्मनेपदानि भवन्ति तथा कर्तर्यपि अद्यतन्यामात्मनेपदते त्रिच्, तलुक् च शिति च क्य इति सिद्धम्
11 28 11
तपस्तपः कर्मकात् | ३ | ४|८५।
तपेः तपः कर्मकर्तरि त्रिक्यात्मनेपदानि स्युस्तथा । तप्यते, तेपे वा तपः साधुः । तप इति किम् ? उत्तपति स्वर्ण स्वर्णकारः । कर्मेति किम् ? तपः साधुं तपति ॥ ८५ ॥
तप्यते तेपे वातपित्र करोत्यर्थकः, त्रिच् तु " तपः कर्तनुतापे च " | ३ | ४ || इति प्रतिषेधान्न भवति । तपः साधु तपति -- दुःखयतीत्यर्थः । ॥ ८५ ॥
एकधात कर्मविययैकाकर्मकि वे | ३ | ४ |८६ |
एकस्मिन्धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना सम्प्रत्य