SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ( ८२ ) व्यञ्जनाच्छ्नाहेरानः ।३।४।८०॥ व्यञ्जनात्परस्य श्नायुक्तस्य हेरानः स्यात् । पुषाण । मुषाण । व्यजनादिति किम् ? लुनीहि ॥८॥ लुनीहि ‘एषामीय॑ज्जनेऽदः ।४।२।६७। इत्यात ईकारः ॥८॥ .. तुदादेः शः ।३।४।८१॥ एभ्यः कर्तृ विहिते शिति शः स्यात् । तुदति । तुदते ॥८१।। शकारः शित्कायार्थः । नुदीत् व्यथने इत्यादयः तकारानुबन्धाः ॥८१॥ रुधां स्वराच्छ्नो नलुक् च ।३।४।८। . रुधादीनां स्वरात्परः कर्तृ विहिते शिति श्नः स्यात्तद्योगे प्रकते! लुक् च यथासम्भवम् । रुणद्धि । हिनस्ति ॥८२॥ चकारेण प्रकृतेर्नकारस्य लुगन्वाचीयते, प्रत्ययनकारस्य तु विधानसामर्थ्यातु लुग्न भवति । रुणद्धि-'अधश्चतुर्थात्तथोर्धः ।२।१।७६॥ इति प्रत्ययतकारस्य धकारः। हिनस्ति-"उदितः स्वरान्नोन्तः” ।४।४।८८। इति नकारस्यानेन लुक् ॥२॥ कृरतनादेरुः ।३।४।३। कृगस्तनादिभ्यश्च कर्तृ विहिते शिति उः स्यात् । करोति । तनोति ॥८॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy