SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ( ८१ ) तक्षः स्वार्थे वा | ३ | ४७७ । स्वार्थस्तनुत्वं तद्वृत्तेस्तक्षः कर्तृ विहिते शिति श्नुर्वा स्यात् । तक्ष्णोति । तक्षति | स्वार्थ इति किम् ? संतक्षति शिष्यम् । ।। ७७ ।। “तक्षौ तनूकरणे” स्वार्थः तनूकरणम् । तक्ष्णोति काष्ठ तनूकरोतीत्यर्थः । संतक्षति - निर्भत्सयति ॥७७॥ | स्तम्भूस्तुम्भूस्कम्भुस्कुम्भूस्कोः श्ना च । ३ | ४ |७८। स्तरभ्वादेः सौत्राद् धातोः स्कुगश्च कर्तृ विहिते शिति श्ना नुश्च स्यात् । स्तभ्नाति । स्तभ्नोति । स्तुभ्नाति । स्तुभ्नोति । स्क नाति । स्कम्नोति । स्कुनाति । स्कुनोति । स्कुनाति । स्कुनोति ॥ ७८ ॥ पाठापठितत्वे सति सूत्रगृहीतत्वे सति धातुत्वम् = सौत्रधातुत्वम् । अनिदिष्टानुबन्धानां सौत्राणां धातूनां परस्मैपदित्वम् । स्तम्भ्वादीनामूदित्करणं क्त्वाक्तयोरिविकल्पनित्यप्रतिषेधार्थम् । “ ऊदितो वा | ४|४|१२| वेटोऽपतः । ४।४ । ६२ । इति इविकल्पनित्यप्रतिषेधौ ॥७८॥ क्रञ्चादेः ३ | ४|७८६ । क्रयादेः कर्तृ विहिते शिति श्ना स्यात् । क्रीणाति । प्रीणाति । 1 ॥ ७६ ॥ क्रयादयोऽत्र 'डुक्रीग्श् द्रव्यविनिमये' इत्यादयः शकारानुबन्धा ज्ञ ेयाः 11 '92 11
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy