SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ( ८० ) कुषिरजेाप्ने वा परस्मै च ३।४।७४। आभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा स्यात्तद्योगे च श्यः । कुष्यति, कुष्यते वा पादः स्वयमेव । रज्यति रज्यते वा वस्त्रं स्वयमेव । व्याप्ये कर्तरीति किम् ? कुष्णाति पादं रोगः । शितीत्येव । अकोषि ॥७॥ 'कुषिरजेप्प्ये क्याद् वा परस्मै इति कृते एव सिद्ध श्यविधानं कुष्यन्ती रज्यन्तीत्यत्र 'श्यशवः' ।२।१।११६॥ इत्यनेन नित्यमन्तादेशार्थम् । 'एकधाती०" ।३।४।८६। इति प्राप्तयोः क्यात्मनेपदयोरपवादः । कुष्णाति पादं देवदत्तः बहिनिकृष्टान्तरवयवं करोति देशान्तरं प्रापयति वा, कुष्यति कुष्यते वा पादः स्वममेव । रजति वस्त्रं रजकः, रज्यति रज्यते वा वस्त्रं स्वयमेव । रजतीत्यत्र “अकट्धिनोश्च. रज्जे: ।४।२।५०। इत्युपान्त्यनका रस्य लुक् ॥४॥ ।४।७५। ... . . . . .. स्वादेः श्नुः ३।४।७५॥ स्वादेः कर्तृ विहिते शिति श्नुः स्यात् । सुनोति । सिनोति ॥ ७५ ॥ शकारः शित्कार्यार्थः । सुनाति–'उ-श्नोः' ।४।३।२। इत्यनेन ‘श्नु' इत्यस्य गुणः । स्वादयोऽत्र 'पुगट अभिषवे' इत्यादयः टकारानुबन्धा ज्ञेयाः ॥७५।। वाऽक्षः ।३।४।७६। अक्षः कर्तृ विहिते शिति अनुर्वा स्यात् । अक्ष्णोति । अक्षति । ॥ ७६॥ 'अक्षौ व्याप्तौ च' इत्यस्माद्धातोः ।।७६।।
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy