________________
क्रियार्थो धातुः ॥३॥३॥३॥
कृतिः क्रिया पूर्वापरीभूता साऽर्थो यस्य स धातुः स्यात् । भवति अत्ति, गोपायति, जुगुप्सते, पापच्यते, पुत्रकाम्यति, मुण्डयति, जवनः ॥३॥
कृतिः, क्रिया प्रवृत्तिर्व्यापार इति पर्यायाः, कृगों भावे 'स्त्रियां क्तिः' ।५।३।८१। इति क्तिः । क्रियेति–'कृगः शः च वा' ।।३।१००। इति शः । पूर्वापरीभूतेति–पूर्वावयवसम्बन्धा पूर्वा, अपरावयवसम्बन्धाऽपरा, पूर्वा चासावपरा च पूर्वापरा, अपूर्वापरा पूर्वापरा संपन्ना पूर्वापरीभूता। यद्यपि क्रिया आदितोऽन्तं यावदेकव, तथापि तस्याः कपि.कोत्पत्तिदर्शनात् क्रमविषयाणामवस्थाविशेषाणां तदङ्गत्वं परिकल्प्यते, यथा पच् धात्वर्थभूता विक्लित्त्यनुकूला क्रिया, पाकपात्रस्य चुल्ल्युपरिधारणम् । फूत्काराद्यधः सन्तापनादिकमारभ्य पाकपात्रस्य नीचैरानयनपर्यन्तमेकैव, तथापि अधिश्रयणादीनां तदवयवत्वं परिकल्प्यते । तत्र केचिदवयवाः पूर्वमुत्पद्यन्ते केचित्पश्चादिति तेषां पूर्वापरत्वव्यवहारो दुष्टः, तथा च वस्तुतोऽपूर्वापरा सत्यपि सा पूर्वापरा सम्पद्यते इति पूर्वापरीभूतात्वं तस्याः । अत्र 'पूर्वापर० ।२।१।१०३। इति सूत्रे पाठक्रममाश्रित्य परत्वादपरशब्दस्यैव पूर्वनिपातप्राप्तावप्यर्थक्रमस्य स्पष्टप्रतिपत्त्यर्थं तमनुरुध्य राजदन्तादिगणपाठपरिकल्पनया पूर्वशब्दस्यैव पूर्वनिपातः कृतः इति न दोषः । आयादिप्रत्ययान्तामपि क्रियार्थत्वाद् धातुत्वाद् उदाहरति गोपायति-- 'गुपौधूप० ।३।४।१। इत्यायः । जुगुप्सते--गुपेर्गर्हाविवक्षायां 'गुप्तिजो गर्हाक्षान्ती सन् ।३।४।५॥ इति सन् । 'गुपि गोपनकुत्सनयोरिति भ्वादिरात्मनेपदित्वादात्मनेपदम् । पापच्यते-पुनः पुनरतिशयेन वा पचतीति पचधातोः 'व्यञ्जनादरेकस्वरात् ।३।४।६। इति यङ् तदन्तस्य द्वित्वादिकायें कृते धातुत्वात् ते । पुत्रकाम्यति-पुत्रमिच्छतीति पुत्रीयति द्वितीयान्तात् 'द्वितीयायाः काम्यः ।३।४।२०। इति काम्यप्रत्यय सति तदन्तस्य धातुत्वात् तिः । मुण्डयति-णिज्बहुलं नाम्नः कृगादिषु' ।३।४।४२। इति णिज् तदन्तस्य धातुत्वम् । जु इति सौत्रो धातुर्वेगार्थः तस्य धातुत्वात् कृत्यने जवनः ॥३॥