________________
न प्रादिरप्रत्ययः ॥३॥३॥४॥ प्रादिर्धातोरवयवो न स्यात् ततः पर एव धातुरित्यर्थः न चेत्ततः परः प्रत्ययः । अभ्यमनायत । प्रासादीयत् । प्राविरिति किम् ? अमहापुत्रीयत् । अप्रत्यय इति किम् ? औत्सुकायत ॥४॥ - प्रादिश्चाद्यन्तर्गतः, 'चादयोऽसत्त्वे ।१।१।३१। इव्यवयवसंज्ञा । अनभिमना अभिमना इवाचरत् इत्यर्थे 'च्व्यर्थे भृशादेःस्तोः ।३।४।२६। इति क्यङ्, सकारस्य च लुक्', 'दीर्घश्चि० ।४।३।१०८। इति दीर्घ अभिमनायेति, तस्य समुदायस्य क्रियावाचकत्वेन पूर्वसूत्रेण धातूत्वे प्राप्ते, प्रादिपठितस्याभेरनेन सूत्रेण चावयवत्वे प्रतिषिद्धे मनायेत्येतावता एव धातुत्वे ह्यस्तन्यां ते अभिशब्दं परित्यज्य मनायेत्यतः पूर्वमेवाटि-अभ्यमनायतेति । प्रासादीयदिति-प्रासादे इवाऽऽचरत् इत्यर्थ प्रासादशब्दात् "आधाराच्चोप० ।३।४।८४। इति क्यन् तदन्तस्य क्रियावाचकत्वेन धातुत्वे प्राप्ते 'प्र आङ्' इति प्रादिसमुदायरूपस्य प्राशब्दस्यानेन धात्वयवत्वे निषिद्धे सदीयेत्यस्यैव धातुत्वात् ततः पूर्वमेवाट । अमहापुत्रीयदितिमहांश्चासौ पुत्रः महापुत्रस्तमैच्छत् इत्यर्थे 'अमात्ययात् क्यन्' ।३।४।२४। इति क्यनि महाशब्दस्य प्रादित्वाभावेन निषेधाभावे महापुत्रीयेत्यस्य धातुत्वात्ततः पूर्वमडागमोऽभूत् । औत्सुकायतेति–'उत् सु' इत्येतो प्रादी ताभ्यां सह स्थिताभ्याम् ‘उदुत्सोरुन्मनसि ।७।१।१६२। इति कः, उत्सुकशब्दः उन्मनसि उत्कण्ठिते रुढः, स इवाऽऽचरत् इत्यर्थे 'क्यङ्' ।३।४।२६। इति क्यङ् अत्र प्रादेर्धात्वयवत्वनिषेधे 'काय' मात्रस्य धातुत्वे ततः प्रागडागमापत्तेः ॥४॥
अवौ दाधौ दा ३॥३॥५॥
दाधारूपौ धातू अवितौ दा स्याताम् । दाम्-प्रणिदाता। दै प्रणिदयते । डुदांग प्रणिददाति।दों प्रणिद्यति। धे-प्रणिधयति । हुधांग्-प्रणिदधाति । अवाविति किम् ? दांव दातं बहिः । देव