________________
अवदातं मुखम् ॥५॥
दारुपाश्चत्वारः, धातुरूपी द्वौ। दाम् धातुर्दानार्थको भ्वादिः तस्यानूबन्धविनिर्गमे दारूपत्वम् ततस्तृचि दातेत्यत्र दाशब्दस्य दासंज्ञायां सत्यां 'प्रनि' इत्युपसर्गयोर्मध्ये नीत्युपसर्गसम्बन्धिनो नस्य 'नेमादा० ।२।३७६। इति णत्वे सति प्रणिदाता। देङिति पालनार्थो भ्वादि तस्याशिति प्रत्यये "आत्सन्ध्यक्षरस्य ।४।२।१। इत्यात्त्वे दारूपत्वम् भवति, अनेन दासंज्ञायां नेर्नस्य णत्वं भवति । डुदांग्क् इत्यपि दानार्थकः जुहोत्यादिपठितः, अस्यापि धातोर्दारूपत्वेन दासंज्ञकत्वमिति तस्मिन् परतो ने कारस्य पूर्वोक्तसूत्रेण णकारे प्रणिददाति । दोंच धातुः छेदनार्थो दिवादिः तस्याप्यशिति प्रत्यये आत्त्वविधानात् दारूपत्वमिति दासंज्ञायां नेनस्य णत्वम् । दिवादित्वात् श्ये तिवि 'ओतः श्ये' ।४।२।१०३॥ इत्योकारस्य लुकि नकारस्य णत्वे प्रणिद्यति । टधे धातुः पानार्थको भ्वादिः,. डुधांग्क् धातुर्धारणार्थकः जुहोत्यादिः । दातं बहिरिति-दांवक् धातुर्लवनार्थकोऽदादिः, नस्य वकारानुबन्धत्वात् दासंज्ञाभावे. ततः क्ते 'दत्' ।४।४।१०। इति ददादेशो न भवति । बर्हिः दर्भः कुश इति पर्यायः । अवदातं मुखमिति–दैधातुः शोधनार्थको वानुबन्धो भ्वादिः, तस्य वानुबन्धत्वेन दासज्ञाभावात् अवपूर्वात् ततः क्त 'स्वरादुपसर्गाद दस्ति कित्यधः ।४।४।६। इति दासंज्ञकस्य विधीयमानस्तादेशो न भवति ॥५॥
-
वर्तमाना-तिव तस् अन्ति, सिव थस् थ, मिव वस् मस्, ते आते अन्ते, से आथे ध्वे, ए वहे महे ॥३॥३॥६॥ इमानि वचनानि वर्तमाना स्युः ॥६॥
वर्तमानेति-स्ववाच्यार्थमादायेयं संज्ञा, वर्तमानः कालः वाच्यो. स्याः इत्यर्थे मत्वर्थीयाच् । तिवादीना बहुत्वेऽपि सर्वगत-वर्तमानात्वस्यैकरूपतया वर्तमानेति जातिवाच्यैकवचनम् वर्तमानेति वचनभेदेऽपि संज्ञासंज्ञिनिर्देशो भवत्यनवर्णा नामीतिवत् । वित्करणस्य 'शिदवित्' ।४।३।२०। उतः औविति०।४।३।५०। इति प्रयोजनत्वम् । पाणिनिना तु. वर्तमाना