________________
गुणरत्नावृत्तिसमेतश्रीसिद्धहेमशब्दानुशासनलघुवृत्तौ ॥ अथ तृतीयाध्याये तृतीयः पादः ॥
वृद्धिरारदौत् ।३।३।१॥ आ आर् ऐ औ एते प्रत्येकं वृद्धिः स्युः । माष्टि, कार्यम्, नायकः औपगवः ॥१॥
गुणरत्नावृत्तिः-वृद्धिशब्दस्य संज्ञात्वात् अनुवादविधित्वेन च परनिपातः प्राप्नोतीति "आरंदौद् वृद्धिः” इति सूत्रं कर्तव्यं तथापि वृद्धिशब्दस्य पूर्वनिपातः मङ्गलार्थः इदं मध्यमङ्गलम् । उक्त च-ग्रन्थादौ, ग्रन्थमध्ये ग्रन्थान्ते च मङ्गलं कर्तव्यम् । माष्टि-मृजेर्वर्तमानायां तिवि, गुणे कृर्ते मजोऽस्य वृद्धिः ।४।३।४२। इत्यकारस्य वृद्धिराकारो भवति । अत्र सूत्रेण कृतस्य आकारस्य वृद्धिसंज्ञा। राजेत्यादौ च अकृतानाम् । यतः राजधातौ धातुपाठे एव आकारः। कार्यम्-'ऋवर्णव्यञ्जनाद् ध्यण ।५।१।१७। इति घ्यणि 'नामिनः ।४।३।५१। इति वृद्धिरार । नायकःनयतेः णकतचौ ।५।१४८। इति णके "नामिनः ।४।३।५१। इतीकारस्य वृद्धिरत् भवति । औपगवः-उपगोरपत्यम् "डसोऽपत्ये ।६।१२८। इत्यणि 'वृद्धि स्वरेवादेः० ।७।४।१। इत्यादि स्वररूपस्य उकारस्य वृद्धिरौकारो भवति ॥१॥
गुणोऽरेदोत् ।३।३।२। अर् एत ओत् एते प्रत्येकं गुणः स्युः । कर्ता, चेता, स्तोता ॥२॥
गुणशब्दस्य पूर्वनिपातो मङ्गलस्यैवातिशयद्योतनार्थः । अथवा 'अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेतू' इति नियमस्य व्यभिचारद्योतनार्थः । करोतिः-"नामिनो गुणो०।४।३।१। इति गुणः ॥२॥