________________
( ७७ )
. एभ्यः कर्तर्यद्यतन्यास्ते परे भिज्वा स्यात्तलुक्च । अदीपि ।
अदीपिष्ट । अजनि । अजनिष्ट । अबोधि ॥६७॥ दीपैचि दीप्तौ, जनैचि प्रादुर्भावे । अजनि–'न जनबधः" ।४।३।५४। इति वृद्धयभावः । बुधिंच ज्ञाने इकारो देवादिकस्यात्मनेपदिनः परिग्रहार्थः तेन बुध ग अबोधिष्ट इत्यत्र न भवति । पुरैचि आप्यायने, तायङ सन्तानपालनयोः, आप्यायै वृद्धौ ॥६७॥
भावकर्मणोः ३॥४॥६॥ सर्वस्माद्धातोर्भावकर्मबिहितेऽद्यतन्यास्ते जिच् स्यात्तलुक्च आसि त्वया। अकारि कटः ॥६॥ आसिक उपवेशने अदादिः ॥१८॥
स्वरग्रहदृशहन्भ्यः स्यसिजाशीःश्वस्तयां जिड वा - ।३।४।६६ . स्वरान्ताद् ग्रहादेश्च विहितासु भावकर्मजासु स्यसिजाशीःश्वस्तनीषु जिड वा स्यात् । दायिष्यते । दास्यते। अदायिषाताम् । अदिषाताम् । दायिषोष्ट । दासीष्ट । दायिता । दाता। ग्रहीष्यते । अग्राहिषाताम् । अग्रहीषाताम् । ग्राहिषीष्ट । ग्रहीषोष्ट । ग्राहिता । ग्रहीता । दशिष्यते । द्रक्ष्यते । अशिषाताम् । अदृक्षाताम् । दर्शिषीष्ट । दृक्षीष्ट । दशिता। द्रष्टा । घानिष्यते । हनिष्यते। अघानिषाताम् । अवधिषाताम् । घानिषीष्ट । वधिषीष्ट । घानिता । हन्ता ॥६९। प्रकृतिप्रत्यययोर्वचनवैषम्यान्न यथासङ्खयम् । दायिष्यते="आतः ऐ:०