________________
( ७४ )
ङकारी ङित्कायार्थः । अचीकरत् - " असमानलोपे ०" | ४|१|६३ | इति सन्वद्भाव:, 'सन्यस्य'|४|१|५६ | सूत्रेण सनीकारः तथावापि 'लघोदघो० |४|१|६४ इति दीर्घः । कमिग्रहणम् “अशवि ते वा" | ३ | ४|४| इति यदा णिङ् नास्ति तदार्थवत् । अकारयिषाताम् — कटौ क्रियते मैत्रेण । मैत्रेण क्रियमाणो तौ चैत्रेण प्रयुज्येते स्म, यद्वा मैत्रः कटौ करोति, तस्यैवं विवक्षा नाहं करोमि अपि तु क्रियेते कटौ स्वयमेव । तो क्रियमाणी कटी चैत्रेण प्रायुक्षाताम् ।। ५८ ।।
-श्वेर्वा | ३|४|५६ ।
आभ्यां कर्तर्यद्यन्यां ङीर्वा स्यात् । अदधत् । अधात् । अशिश्वियत् । अश्वत् । कर्तरित्येव-अधिषातां गावौ वत्सेन ॥ ५६ ॥
1
अदधत् = "इडेत्पुसि चातो लुक् | ४ | ३ |६४ | इत्याल्लुक् । अधात् = अत्र "ट्वे- प्रा० |४| ३ |६७ | इति विकल्पेन सिज्लुप् इनिषेधश्च । पक्षे अधासीदित्यपि, यमिरमि० |४|४|८६ । इतीट् सन्तश्च । अश्वत् = "ऋदिच्छ्वि० । ३।४।६५ इत्यङ् 'श्वयत्सू०' | ४ | ३ | १०३ । इति श्वादेशः । अधिषाताम् - इश्च स्थाद:' | ४|३|४१ | इति सिचः किवद्भावः, आतः इश्चः ||५||
शास्त्यसुवक्ति ख्यातेरङ् | ३ | ४|६०|
एभ्यः कर्तर्यद्यतन्यामङ् स्यात् । अशिषत् । उपास्थत् । अवोचत् । आख्यत् । कर्तरीत्येव अशासिषातां शिष्यौ गुरुणा ॥ ६० ॥
अस्यतेः पुष्पादित्यात् अङि सिद्धे "क्रियाञ्यतिहारे० | ३ | ३|२३| इत्यात्मनेपदार्थं वचनम् । नन्वात्मनेपदयोरनेनैव सिध्यति किं पुष्यादिपाठेन ? सत्यम् अस्य पुष्यादिपाठो 'द्विर्बद्ध' सुबद्ध ं भवतीति ज्ञापनार्थः तेनास्मादङोऽव्यभिचारः । अन्येषां तु क्वचिद् व्यभिचारोऽपि तेन 'भगवन्मा कोऽपीत्यादि बालरामायणोक्तं सिद्धम् । तिनिर्देशो यङ्लुब्निवृत्त्यर्थः । अशिषद् = 'शासूक् अनुशिष्टी “इसासः शासो० " | ४|४|१०८ । इत्यास इस् । अपास्थत् = 'श्वयत्सू० | ४ | ३ | १०३ इति असू इत्यत्रोकारोपानात् असूच् क्षेपणे इति गृह्यते । ब्रू गादेशः वच् । चक्षादेशः ख्यांग् ॥६०॥