________________
( ७३ )
दिति किम् ? अधाक्षीत् । अदृश इति किम् ? अद्राक्षीत् । अनिट इति किम् ? अकोषीत् ॥५५॥ सिचि प्राप्तेऽस्य विधानात् सिचोऽपवादः । दुह-विश्धातुभ्यां अधुक्षत अविक्षत् । अकोषोत्="इट ईति" ।।३।७१। इति सिज्लोपः ॥५५॥ श्लिषः।३।४।५६। श्लिषोऽनिटोऽद्यतन्यां सक् स्यात् । आश्लिक्षत्कन्या मैत्रः । अनिट इत्येव-अश्लेषीत् ॥५६॥ पुष्यादित्वादङि प्राप्ते वचनम् पूर्वेऽपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान् इत्यङः एव बाधकोऽयं न तु त्रिचः । अश्लेषीत् =अधाक्षीदित्यर्थः । अनिट इति वचनात् श्लिष दाहे इत्यस्मात्सेटो न भवति ॥५६॥ नासत्वाश्लेषे ।३।४।५७। श्लिषोऽप्राण्याश्लेषार्थात्सन स्तात् : उपाश्लिषजतु च काळं च । असत्वाश्लेष इति किम् । व्यत्यशिलक्षन्त मिथुनानि ॥५७॥ नत्वनन्तरस्य विधिः प्रतिषेधो वेति न्यायात् अनन्तरस्य सको अङबाधकत्वात् परस्मैपदविषयस्यैव प्रतिषेधः प्राप्नोति न तु क्रियाव्यतिहारे कर्तर्यात्मनेपदे प्रवर्तमानस्य 'हशिट० ।३।४।५५॥ इत्यस्येति चेत्सत्यम् पृथग्योगात् 'हशिटो० ।३।४।५५॥ इत्यनेनापि प्राप्तस्य निषेधोऽन्यथा 'श्लिषोऽसत्त्वाश्लेषे' इत्येकमेवं योगं कुर्यात् । व्यत्यश्लिक्षन्त-' स्वरेऽतः ।४।३।७५। इति सकोऽकारलोपस्य परमप्यादेशं प्रति पूर्वस्मात्परो विधिः प्राविधिरित्याश्रयणात् “स्वरस्य परे०.७।४।११०। इति स्यानिवद्भावात् 'अनतोऽन्तोदात्मने' ।४।२।११४। इत्यनेनादादेशो न भवति ॥५७॥ मिश्रिनु सुरुकमः कर्तरि ङः ।३।४।५८॥ ज्यन्ताच्छ्यादिभ्यश्च कर्त्तयंद्यतन्यां ङः स्यात् । अचीकरत् । अशिश्रियत् । अदुद्र वत् । असुन बत् । अचकमत् । कर्लरोति किम् अकारयिषातां कटौ मैत्रेण ।।५८॥