________________
(
७२
)
वेत्तः परस्याः पञ्चम्याः किदाम्वा स्यात् आमन्ताच्च परः पञ्चम्यन्तः कृगनुप्रयुज्यते । विदाङ्करोतु । वेत्तु ॥५२॥ कृग्ग्रहणं भवस्तिव्युदासार्थम् । भ्वस्तिसम्बन्ध एब कृगनूद्यते, तेन कृगट . इत्यस्य न ग्रहणम् ॥५२॥
सिजद्यतन्याम् ॥३॥४॥५३॥ अद्यन्तयां परस्यां धातो परः सिच् नित्यं स्यात् । अनेषीत् ॥५३॥ आम्निवृत्तौ तत्सम्बद्धं वेति निवृत्तम् । सिज् इत्यत्र "चजः कगम् । ।२।१।८६। इति कृते कित्त्वाशङ्का स्यात् । इकारचकारौ विशेषणार्थों= अन्यथा सिचि० ४।३।४४। इत्यादी सिरिति कृते वर्तमाना-सि-प्रत्यये स इति च कृते सकारादिमा प्रसङ्गः स्यात् । अनैषीत="सिचि परस्मै." ।४।३।४४। इति वृद्धि: “सः सिजस्ते०"।४।३।६५॥ इति परादिरीत् ॥५३॥ . स्पृशमृशकृषतपदृपो वा ।।४।५४॥ एभ्योऽद्यतन्या सिज् वा स्यात् । अस्प्राक्षीत् । अस्पार्षीत् । अस्पृक्षत् । अम्राक्षीत् । अमाझेत् । अमृक्षत् । अनाक्षीत् । आकार्षीत् । अकृक्षत् । अवाप्सीत् । अप्तासेत् । अतृपत् । अद्राप्सीत् । अदार्सीत् । अदृपत् ॥५४॥ स्पृशंत् संस्पर्श, मृशंत् आमर्शने, कृषीत् विलेखने, तृपौष प्रीप्तौ, दृपौच
हर्षमोहनयोः । तृपदपोः पुष्यादित्वाद् 'लदिय तादिपुष्यादेः परस्मै ।।३।४।६४। इत्यङि शेषाणां तूत्तरेण सकि प्राप्ते वचनम् । अथययाय मडि
सकि च प्राप्ते विधीयमानस्तयोर्बाधको भवति तथा निचोऽपि बाधकः प्राप्नोति अस्मिन्नपि प्राप्नेऽस्य विधीयमानत्वादिति चेन्मेवं पूर्वेऽपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्' इति न्यायात् ॥५४॥ हशिटो नाम्युपान्त्याददृशोऽनिटः सक् ॥३॥४॥५५॥ हशिडन्तान्नाम्युपान्त्याददृशोऽनिटोऽद्यतन्यां सक् स्यात् । अधुक्षत् । अविक्षत्। हशिट इति किम् अभैत्सीत् । नाम्युपान्त्या