________________
(
७१
)
भवत्येवेति कश्चित् । अन्ये तु परोक्षायामिन्धेरामन्तस्यैव प्रयोग इत्याहुः । • समोऽन्यत्रापि इन्धेराम्विकल्प इत्यन्यः ॥४६॥
भीही होस्तित्वत् ॥३॥४॥५०॥ एभ्यः परस्याः परोक्षाथा आम वा स्यात् स च तिव्वत् आमन्ताच्च परे कृश्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते। बिभयाञ्चकार । बिभयाम्बभूव । बिभयामास । विभाय । जिलयाऽचकार । जिह्राय । बिभराञ्चकार । बभार । जुहवा चकार । जुहाव ॥५०॥ तिब्बद्भावाद्वित्वमित्वं च ॥५०॥
वेत्तेः कित् ॥३॥४॥५१॥ वेत्तैः परस्या परोक्षाया आम किवा स्यात् आमन्ताच्च कृश्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । विदाञ्चकार । विवेद ॥५१॥ तिनिर्देशो 'विदक ज्ञाने' इत्यादादिकपरिग्रहार्थः । वेत्तेः परस्याः परोक्षाया आमादेशो वा भवति स च कित् । वेत्तेरविदिति कृते इन्ध्यसंयोगात्परोक्षा किद्वदित्यामः स्यानिवद्भावेन कित्त्वे सिद्धपि कित्त्वविधानमामः परोक्षावद्भावनिवृत्तिज्ञापनार्थम्, तेन परोक्षावद्भावेन हि कित्वद्विवचनादिकं न भवति । विदांचकार-कित्त्वाद् गुणो न भवति । तिन्निर्देशो यङ्लुनिवृत्त्यर्थश्च । तेन यङ्लुपि वेवेदांचकारेति सिद्धम्, “धातोरनेक०" ।३।४।४६। इत्यामि नाऽनेन विकल्पः ॥५६।।
पञ्चम्याः कृग् ॥३॥४॥५२॥