SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ( ७० ) भूव । दयामास । पलायाञ्चके । आसाञ्चक्रे । कामाश्चक्रे । ॥४७॥ दयि दानगतिहिंसादहनेषु च ॥४७॥ गुरुनाम्यादेरनृच्छ्रोः ३।४॥४८॥ गुरु म्यादिर्यस्य तस्माद्धातोः ऋच्छ वात्परस्याः परोक्षाया आम् स्यात् आमन्ताच्च परे कृश्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । ईहाञ्चके । ईहाम्बभूव । ईहामास । गुविति किम् ? इयेष। नामीति ? आनर्च । आदोति किम् ? निनाय । अनन्छ !रिति किम् ? आनर्छ । प्रोणुनाव ॥४८॥ . गुरुग्रहणं नामिनो विशेषणं न धातोः, धातुविशेषणे हि इयेष इत्यत्रापि स्यात् । ऋच्छ्प्रतिषेधात् संयोगे परे पूर्वो गुरुरिति विज्ञायते । ईषतुः, ईषुः इत्यत्र 'सन्निपातलक्षणों विधिरनिमित्तं. तद्विघातस्य' इति न्यायान्न भवति । ईडस्तु "आद्यन्तवदेकस्मित्” इति न्यायात् अयांचक्रे इति भवत्येव । उपसर्गस्य तु क्रियाविशेषकत्वाद्व्यवधायकत्वाभावात् "उक्षां प्रचक्रःनगरस्य मार्गान्” इत्यादि भवत्येव ॥४८॥ जान षसमिन्धेर्नवा ३।४।४६ एग्यो धातुश्यः परस्याः परोक्षायाः आम वा स्यात् आमन्ताच परे कृश्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । जागराञ्चके । जागराम्बभूव । जागरामास । जजागार। उषाञ्चकार । उवोष । समिन्धाञ्चक्ने । समीधे ॥४६॥ उवोष-"पूर्वस्यास्वे० ।४।११३७। इत्युवादेशः । सोपसर्गादिन्धेराम् न
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy