________________
"
( ६६ )
गालोsयतीत्यत्र तु अनेन इतलोपे "वयन्त्यस्वरादेः " ७|४|४३| इत्योडलोपे सति गालयतीत्यनिष्टं रूपं स्यात्ः । गाः इन्द्रियाणि आलोडयते प्रमाद्यतेऽनेन स गालोडः उन्माद रोग:, सूखना, चित्तविभ्रमो वा । गालोड: संजातोऽस्य इतच् । गुणरत्नावृत्ते रारम्भेऽस्मिन् सूत्रे श्वेताश्वेनातिकामति श्वेतयतोति दर्शितं तव शब्दशक्तिस्वाभाव्यात् अतिशब्दप्रयोगं विनापि तदर्थप्रतीतिः ॥ ४५ ॥
धातोरनेकस्वरादाम्परोक्षायाः कृभ्वस्ति- चानुतदन्तम् |३|४|४६ ।
अनेक स्वराद्धातोः परस्याः परीक्षायाः स्थाने आम् स्यात् आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु पश्चादन्तरं प्रयुज्यन्ते । चकासाञ्चकार । चकासाम्बभूव । चकासामास । अनेकस्वरादिति किम् ? पपाच । अनु विपर्यासव्यवहिति निवृत्त्यर्थः । तेन arraकासाम् । ईहा चैत्रश्चक्र े इत्यादि न स्यात् ॥ ४६ ॥
धातोरनेकस्वरत्वं द्विधा स्वाभाविकं परोक्षाहेतुकं च । तत्र आद्य चकासांचकारेत्यादावाम् भवति द्वितीये तु पपाचेत्यादौ न भवति । सूत्रे तु सामान्येन यदनेकस्वरादित्युक्त ं तत् “सन्निपातक्षणो०" इति न्यायं सूचयति । पपाचेत्यादौ णवरूपां परोक्षां निमित्तीकृत्य जातमनेकस्वरत्वं द्विधातं न करोतीति । " नानुबन्धकृता० " इति न्यायात् डुपचष् पाके इत्यनुबन्धकृतमप्यनेकस्वरत्वं न भवति । चकासामासेत्यत्रास्तेर्भूनं भवति विधानबलात् ||४६ ||
दयायास्कासः ३ | ४|४७ ।
एभ्यो धातुभ्यः परस्याः परोक्षाया आम् स्यात् । आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । दयाञ्चक्रे । दयाम्ब