________________
( ६८ )
दिष्वर्थेषु णिज्बहुलं स्यात् । पयो व्रतयति । सावद्यान्नं व्रतयति ॥४३॥
पय एव मया भोक्तव्यमिति व्रतं करोति गृह णाति वा पयो व्रतयति । सावद्यान्मं मया न भोक्तव्यमिति व्रतं करोति गृह नि वा-सावद्यान्नं व्रतयति । अर्थनियमार्थ आरम्भः। यदि वहुलग्रहणस्य प्रयोगानुसरणार्थत्वातु अर्थनियमो भविष्यतीत्युच्यते तदा तत्प्रपञ्चार्थोऽयम् ।।४।।
सत्यार्थवेदस्याः ।३।४।४४॥ एषां णिच्सन्नियोगे आः स्यात् । सत्यापयति । अर्थापयति। वेदापयति ॥४४॥
सत्यमाचष्टे करोति वा सत्याषयति एवमर्थापयति, वेदापयति । "येन नाप्राप्ते.” इति न्यायेन अकारस्याऽऽकारविधानसामर्थ्यात् “न्यन्त्यस्वरादेः" ।७।४।४३॥ इत्याल्लुग् न भवति ॥४४॥ .
श्वेताश्वाश्वत रगालोडिताहरकस्याश्वतरेतकलक ।३।४।४५॥ एषां णिज्योगे यथासङ स्यमश्वादेः शब्दस्य लुक् स्यात् । श्वेतयति । अश्वयति । गालोडयति । आह्वरयति ॥४५॥
- लुगथं वचनं णिच् तु सर्वत्र पूर्वेण सिद्ध एव । श्वेताश्वमा
चष्टे करोति वा श्वेताश्वेनातिकामतीति वा श्वेतयति एवमश्वयति । .-- गालोडितमाचष्टे करोति वा गालोडयति एवमाह्वरयति । श्येतयतीत्यादिवनेन सस्वराणामेवाश्वादीनां लुक्, न तु "त्रयन्त्यस्वरादेः” ।७।४।४३। इत्यनेनान्त्यलोपे सति विशेषविधानात् । “सकृत्बाधित.” इति न्यायात् । अश्वादिलोपात्पश्चादपि त्रयन्त्यस्वरादेः" ७।४।४३॥ इत्यन्त्यस्वरादेर्न लुक् । श्वेतयतीत्यादिषु अन्त्यस्वरादेोपेपि न किञ्चिद् विनश्यति ।