________________
। (. ६६ )
करोतीति--वरिवस्यति गुरून् । वृणीते 'स्वरेभ्यः' ॥३०६ उणादि० ॥ इति इप्रत्यये वरिः सेवकस्तत्र वसतीति विचि वरिवः । चित्रं करोतिचित्रीयते । कारः आत्मनेपदार्थ 'अवयवे कृतं लिङ्ग समुदायमपि विशिनष्टि इति न्यायात । अर्चाद्यर्थाभावे तु न भवति नमः करोति, विरव: करोति नमोवरिवःशब्दमुच्चारयतीत्यर्थः । ननु नमस्यति देवानित्यत्र नमःशब्दयोगात शक्तार्थ०' ।२।२१७८॥ इति चतुर्थी कथं न भवतीति चेत्सत्यम् नमस्यतीत्यस्यैकदेशो नमःशब्द इति “अर्थवद्ग्रहणे नानर्थकस्य' इति न्यायात् 'उपपदविभक्त : कारकविभक्तिर्बलीयसी' इति न्यायाद्वा न भवति ॥३७॥
अङ्गानिरसने गिङ् ।३।४।३८। अङ्गवाचिनः कर्मणो निरसनेऽर्थे णिङ् वा स्यात् । हस्यते, पादयते॥३॥
हस्ती निरस्यति हस्तयते एवं पादयते । ङकार. आत्मनेपदार्थः । निरसनाभावे तु हस्तं करोति हस्तयतीत्यादौ णिजपवादस्य णिोऽभावाद् णिज् भवत्येव ॥३॥
पुच्छादुत्परिव्यसने ।३।४।३६। पुच्छात्कर्मण उदसने पर्यसने व्यसनेऽसने चार्थे णिङ वा स्यात् । उत्पुच्छ्यते । परिपुच्छयते। विपुच्यते । पुच्छयते।। पुच्छम् उदस्यति उपुच्छ्यते, पर्यस्यते परिपुच्छ्यते, व्यस्यति विपुच्छयते, अस्यति=पुच्छायते ॥३६॥
भाण्डात्समाचितौ।३।४॥४०॥
भाण्डात्कर्मणः समाधिताव लिङ् वा स्यात् । सम्भाण्डयते ।