SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ( ६५ ) सुखादेरनुभवे ॥३॥४॥३४॥ साक्षात्कारेऽर्थे सुखादेः कर्मणः क्यङ् वा स्यात् । सुखायते । दुःखायते ॥३४॥ ___ साक्षात्कारोऽनुभवः । सुखमनुभवति--सुखायते । दुःखमनुभवति–दुःखायते ॥३४॥ - . शब्दादेः कृतौ वा ॥३॥४॥३५॥ एभ्यः कर्मभ्यः कृतावर्थे क्यङ् वा स्यात् । शब्दायते । वैरायते पक्षे णिच् । शब्दयति । वैरायति ॥३५॥ णिजपवादः । शब्दं करोति--शब्दायते, वैरं करोति-वैरायते। वाशब्दो व्यवस्थितविभाषार्थः तेन यथादर्शनं णिजपि भवति-शब्दयति वैरयति । वाधिकारस्तु वाक्यार्थः । व्यस्थितं प्रयोगारूढ विधिप्रतिषेधादिकार्य विशेषेण भाषते सा व्यवस्थितविभाषा ॥३५॥ तपसः क्यन् ।३।४।३६। अस्मात्कर्मणः कृतावर्थे क्यन् वा स्यात् । तपस्यति ॥३६॥ तपः करोति-तपस्यति ॥३६॥ नमो वरिवश्चित्रकोऽर्चासेवाश्चर्ये ।३।४।३७। एभ्यः कर्मभ्यो यथासंख्यमर्चादिष्वर्थेषु क्यन्वा स्यात् । नमस्यति। वरिवस्यति । चित्रीयते ॥३७॥ देवेभ्यो नमः करोति-नमस्यति देवान् । गुरूणां वरिवः सेवां
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy