________________
कष्टकक्षकृच्छसत्रगहनम्य पापे क्रमणे ॥३॥४॥३१॥
एभ्यश्चतुर्थ्यन्तम्मः पापवृत्तिभ्यः क्रमणेऽर्थे क्यङ स्यात् । कष्टायते, कक्षायते, कृच्छायते, सत्रायते, गहनायते। चतुर्थीति किम् ? रिपुः कष्टं कामति । पाप इति किम् ? कष्टाय तपसे क्रामति ॥३१॥
.... चतुर्धन्तेभ्य इति इदं निर्देशादेव लब्धम् । कष्टाय पापभूताय कर्मणे कामति-कष्टायते । कष्टाय तपसे कामति-पापमनार्जवाचारः स इह नास्तीति न भवति, अथ यथेह पापं नास्ति तथा क्रामणमपि पादविक्षेपो नास्तीति द्वयङ्गवैकल्यमिति न च वाच्यमत्र क्रमणं न पादविक्षेपः किन्तु प्रवृत्तिमात्रमिति न द्वयङ्गवैकल्यम् ॥३१॥
रोमन्थाव्याप्यादुच्चर्वण ।३।४।३२। अभ्यवहृतं द्रव्यं रोमन्थः, उद्गीर्य चर्वणमुच्चर्वणमस्मिन्नथें रोमान्थात्कर्मणः क्यङ वा स्यात् । रोमन्थायते. गौः । उच्चर्वण इतिं किम् ? कोटो रोमन्थं वर्तयति ॥३२॥ ,
अभ्यवहृतं द्रव्यं रोमन्थः । उद्वीर्य चर्वणमुच्चवर्णम् । रोमन्थमुच्चर्वयतीति-रोमन्थायते गौः । उद्गीर्य चवंयतीत्यर्थः । चर्वयतीत्यस्य बहुलमेतन्निदर्शनमिति चुरादित्वम् । कीटो रोमन्थं वर्तयति--उद्वीर्य बहिस्त्पक्त पृष्ठान्तेन निर्गतं वा द्रव्यं गुटिकां करोतोत्यर्थः ॥३२॥
फेनोमबाष्पधूमादुद्वमने ॥३॥४॥३३॥ एभ्यः कर्मभ्यः उद्वमनेऽर्थे क्यङ् वा स्यात् । फेनायत्ते। ऊष्मायते । बाष्पायते । धूमायते॥३३॥ .
फेनमुद्वमति-फेनायते एवं उष्मायते इत्यादि ॥३३॥ ..