________________
( ६३ )
भृशायते । उन्मनायते । वेहायते । कर्तु रित्येव । अभृशम्भृशम्करोति । व्यर्थ इति किम् ? भृशो भवति ॥२६॥
च्व्यर्थे इत्यनेन लक्षणया भवत्यर्थविशिष्टं प्रागतत्त्वंमुच्यते, करोतिस्तु कर्तु रित्यनेन व्युदस्तः । अयं भात:-करोत्यर्थविशिष्ट प्रागतत्त्वे भृशादीनां कर्तृत्वं न सम्भवति अपितु कर्मत्वमेव । अभृशो भृशो भवति भृशायते । भवत्यर्थे विधानाच्च क्यङन्तस्य क्रियार्थत्वम्, भवत्यर्थशब्दाप्रयोगश्च । भवत्यर्थविशिष्टे च्व्यर्थे क्यङ् विहितः, च्विस्तु तद्योगमात्रेऽत एव च्च्यिोगकरोतिभवत्योः प्रयोगो भवति । अनुक्तार्थत्वाद् क्रियार्थत्वाभावाद् धातुत्वं च न भवति ॥२६॥
डाचलोहितादिभ्यः पित् ।३।४।३०। .. डाजन्तेभ्यो लोहितादिभ्यश्च कर्तृभ्यश्च्च्यर्थे क्वङ् बित् स्यात् । पटपटायति पटपटायते । लोहितायाति । लोहितायते। कतु रित्येव 3 एटपटा पटपटा करोति । च्च्यर्थ इत्येव लोहितो भवति ॥३०॥
अपटत् पटत् भवति–पटपटायतिः पटपटायते । “क्यषों,नवा" ।३।३।४३ इति विकल्पेनात्मनेपदम् । ननु भवत्यर्थविशिष्टे च्व्यर्थे क्यले विहितः इति क्यषा भवत्यर्थस्योक्तत्वात् तदभावे 'निमित्ताभावे "नैमित्तिकस्याप्यभावः” इति न्यायात् डाचोऽपि निवृत्तिः स्यादिति वाच्यं डाजन्तात्यविधानसामर्थ्यात् कृभ्वस्तिभिरिव क्यापि योगे डाच न निवर्तते । अलोहितो लोहितो भवति-लोहितायति, लोहितायते लोहित, जिह्म, श्याम, धूम, चर्मन्, हर्ष, गर्व, सुख, दुख, मूळ, निद्रा, कृपा, करुणा । बहुवचनमाकृतिगणार्थम् । धूमादीनां स्वतन्त्रार्थवृत्तीनां प्रकृतिविकारभावाप्रवीतेः च्व्यर्थो नास्तीति अधूमवान् धूमवान् भवतीति तद्वद्वृत्तिभ्यः प्रत्ययो भवति ॥३०॥