________________
( ६२ )
क्यङ् ॥३॥४॥२६॥ करुपमानादाचारऽर्थे क्यङ् वा स्यात् । हंसायते ॥२६॥ हंस इवाचरति हसायते । क्विपक्यडोस्तुल्यविषयत्वादसत्युत्सर्गापवादत्वे पर्यायेण प्रयोगः तेन अश्वायते, गल्भायते इत्यपि। ककार: सामान्यग्रहणार्थः । ङकार आत्मनेपदार्थः । क इवाचरति कायांचक्रे इत्यत्र सस्वरस्य क्यङः फलम् ॥२६॥
सो वा लुक्च ।३।४।२७।
सन्तात्कर्तु रुपमानादाचारेणे क्यङ, वा स्यात्तदन्तस्य च सो . बा लुक् । पयायते । पयस्यते ॥२७॥ स इति आवृत्या पञ्चम्यन्तं षष्ठ्यन्तं चाभिसम्बध्यते । पय इव आचरति पयायते पयस्यते । क्यङ् सिद्धः लुगर्थं वचनम् । चकारः लुचः । क्यड सन्नियोगार्थः अन्यथा स्वतन्त्रौ लुक्क्यङौ स्याताम् ।।२७।।
ओजोप्सरसः ।३।४।२८॥
आभ्यां कतुरुपमानाभ्यामाचारे वयङ वा स्यात् सश्च लुक् । ओजायते । अप्सरायते ॥२८॥ ओजःशब्दो वृत्तिविषये स्वभावात्तद्वति वर्तते । ओजस्वीबाचरति ओजायते । पूर्वेण सिद्धे नित्यसलोपार्थं वचनम् । अन्ये त्वोजः शब्दे सलोपविकल्पमिच्छन्ति ओजायते, अप्सरायते ॥२८॥
चव्यर्थे भृशादेः स्तो. ॥३॥४॥२६॥ भृशादेः कर्तृभ्यश्च्व्यर्थे क्यङ् वा स्यात् यथासम्भवं स्तोलुंक्च ।