________________
( ६१ )
वा स्यात् । पुत्रीयति, पुत्रकाम्यति । अमाव्ययादिति किम् ? इदमिच्छति, स्वरिच्छति ॥२३॥
चकारः काम्यार्थोऽन्यथा मान्ताव्यययोः सावकाशः स क्यना बाध्येत । नकार: “क्यनि" ।४।३।११२। · इत्यत्र विशेषणार्थः । ककारः क्यग्रहणे सामान्यग्रहणार्थः । क्यनः सस्वरत्वे कीयांचकारेत्यादी आम्सिद्धः ॥२३॥
आधाराच्चोपमानादाचारे ।३।४।२४।
अमाव्ययादुपमानाद् द्वितीयान्तादाधाराच्चाचारार्थे क्यन् का स्यात् । पुत्रीयति च्छात्रं । प्रासादोयति कुट्याम् ॥२४॥
पुत्रमिवाचरति=पुत्रीयति च्छात्रम् । प्रासाद इवाचरति व्यवहरति कुटयां प्रासादीयति । उपमानस्य नित्यमुपमेयांपेक्षत्वात्सापेक्षत्वेऽप्यसामर्थ्य न भवति ॥२४॥
कर्तुः क्विप् गलभक्लीबहोडात्तु ङित् ।३।४।२५॥ कर्तुपमानान्नाम्न आचारार्थे क्विब्वा स्यात्। गल्भक्लीबहोडेभ्यस्तु स एव डित् । गल्भते । क्लीबते । होडते ॥२५॥
अश्व इदाचरति अश्वति । गल्भते इत्यादौ 'ङित्वादात्मनेपदं भवति । क्विबिति पूर्वप्रसिद्धयनुवादः तेनास्मिन् स्वमते किञ्चित्कार्य न भवति। परमते तु कितः फलमाचारविपि अहन पञ्चमस्य०।४।१।१०७। इति दीर्घ क इवाचरति कीमति-इदमिवाचरति इदामति । स्वमते तु धातुत्वाभावान्न दीर्धः । स्वमते तु 'किमति, इदमति' इत्येव । एके तु कर्तु: । सम्बन्धिन उपमानात् द्वितीयान्तात् विवप्क्यङाविच्छन्ति । अश्वमिवात्मानमाचरति गर्दभः, अश्वति । तन्मतसंग्रहार्थं कर्तुरिति षष्ठी व्याख्येया। द्वितीयाया इति चानुवर्तनीयम् ॥२५॥