________________
( ५६ .) .
आत्मनेपदार्थः । भूङ् इति उकारनिर्देशः णिङभावेप्यात्मनेपदार्थः । • प्राप्त्यभावेऽपि क्वचिदात्मनेपदमिष्यते यथा
याचितारश्च नः सन्तु, दातारश्च भवामहे ।
आक्रोष्टारश्च नः सन्तु, क्षन्तारश्च भवामहे ॥ .
प्राप्तावपि परस्मैपदमित्यन्ये, सर्वं भवति प्राप्नोतीत्यर्थः । अवकल्कने तु भावयतीत्येव "भूण् अवकल्कने' इति चुरादिपाठात् ॥१६॥
प्रयोक्त व्यापारे णिग् ।३।४।२०। कुर्वन्तं यः प्रयुक्त तयापार गच्ये धातोणिग्वा स्यात् । कारयति । भिक्षा वासयति । राजानमागमयति । कंसं घातयति । पुष्येण चन्द्रं योजयति । उज्जयिन्याः प्रस्थितोमाहिष्मत्यां सूर्यमुद्गमयति ॥२०॥
प्रषणाध्येषण-निमित्त-भावाख्यानाभिनय-ज्ञानप्राप्तिभेदैरनेकधा भवति । तत्र तिरस्कारपूर्वको व्यापारः षणम्, सत्कारपूर्वकस्तु अध्येषणम् । कुर्वन्तं प्रयुक्त कारयति-अत्र षणेनाध्येषणेन वा यथासंभवं प्रयोक्तृत्वम् । वसन्तं प्रयुक्त वासयति, भिक्षा वासयतीत्यत्र निमित्तभावे ।। राजानमागचन्तं प्रयुङक्त राजानमागमयतीत्यत्र आख्यानेन । आख्यानेन हि बुद्धयारूढाः श्रोतृणां चित्त वारूढाः राजानः प्रयुङक्ताः प्रतीयन्ते । कसं घ्नन्तं प्रयुक्त कंसं घातयतीत्यत्राभिनयेन । अयं नट: कौशलात्सरसमभिनयति यथा कंसवधायायमेव नारायणं प्रयुक्त इति प्रतिपत्तिर्भवति । पुष्येण चन्द्र युञ्जन्तं प्रयुक्त पुष्येण चन्द्र योजयति, अत्र कालज्ञानेन । उज्जयिन्याः प्रदोषे प्रस्थितः माहिष्मत्यां सूर्यमुद्गच्छन्तं प्रयुक्त --माहिष्मत्यां सूर्य मुद्गमयति । अत्र प्राष्टया । महिषा अत्र सन्ति "नडकुमुद० ।६।२।७४। इति डिति मतौ अन्त्यलोपे 'धुटस्तृतीयः ।२।११७६। इति प्राप्तस्य डत्वस्य “असिद्धं बहिरङ्गमन्तरङ्ग" इत्यनेन” व्युदासः । न च “स्य रस्य." ।७।४।११०। इत्यकारेण व्यवधानमिति वाच्यं “म सन्धि० ७।४।११। इत्यसदविधौ स्थानित्वनिषेधात् । महिष्मति भवा भवेऽण् ।