________________
( ५८ )
उदन्ताद्विहितस्य यङोऽपि परे लुब् न स्यात् । रोख्यः ॥१६॥
रोख्यः--अत्र पृथग्योगात् बहुलमित्यनेनापि न, अन्यथा 'अचि नोतः” इत्येकमेव कुर्यात् ॥१६॥
चुरादिभ्यो णिच् ।३।४।१७।
एभ्यो धातुभ्यो स्वार्थे णिच् स्यात् । चोरयति। पदयति ॥१७॥
णिचो गित्त्वाभावेन 'ईगितः ।३।३।१०५॥ इति फलवति । नात्मनेपदम् । णकारो वृद्धयर्थः, णिग्रहणेषु सामान्यग्रहणार्थश्च । चकारः .. सामान्यग्रहणविघातार्थः । बहुवचनमाकृतिगणार्थम् । अदन्तं च चुराद्यन्तर्गतसुखादीनां णिसंनियोग एव द्रष्टव्यं तेन णिजभावे जगणिथ इत्यत्रानेकस्वरत्वादाम् न भवति । अङ्कटलेष्कयोस्तु फलाभावात् सुखादीनामित्युच्यते । द्वित्वे सति अनेकस्वरत्वेपि 'सन्निपातलक्षणो विधिरनिमित्तं तद्विधातस्य' इति पूर्वाचार्यानुरोधेनादन्तमध्ये पाठः ॥१७।।
युजादेर्नवा ।३।४।१८॥ एभ्यः स्वार्थे णिज्वा स्यात् । योजयति, योजति। साहयति, सहति ॥१८॥
चुराद्यन्तर्गतो युजादिः ॥१८॥
भूङः प्राप्तौ णिङ् ।३।४।१६॥ भुवः प्राप्त्यर्थाण्णिङ् वा स्यात् । भावयते । भवते । प्राप्ताविति किम् ? भवति ॥१९॥
भावयते, भवते--प्राप्नोतीत्यर्थः । भवतीत्येवान्यन्त्र, णि इति