________________
[ ५७ ]
दीर्घः । वंशेः कृतनलोपस्य निर्देशो बङ्लुप्यपि नलोपार्थः । अन्यथा 'दंदशीति' इत्यत्र 'लुबन्तरङ्गभ्यः इति न्यायात्प्रथममेब यङो लुपि ङित्वाभावात् नलोपो न स्यात् । गह्य इति वचनात् साधु जपति इत्यत्र भृशं पुनपुनर्वा=निगिरति, कुटिलं चरतीत्यत्र न भवति ॥१२॥
न गृणाशुभरुचः ।३।४।१३॥ एभ्यो यङ् न स्यात् । निन्धं गृणाति । भृशं शोभते । भृशं रोचते ॥१३॥
गृणातिशुभिरुचिभ्यः भृशाभीक्ष्ण्ये गृणातेर्गाऽर्थे च यड. न भवति ॥१३॥
बहुलं लुप् ॥३।४।१४। यङो लुप बहुलं स्यात् । बोभूयते । बोभवीति । बहुलवचनात् कूचिन्न भवति । लोलूया । पोपूया ॥१४॥ क्वचित्प्रवृत्तिः, क्वचिदप्रवृत्तिः, क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य, चातुर्विधं बाहुलकं वदन्ति ॥१४॥
"अचि" ।३।४।१५॥ यडोचि परे लुप् स्यात् । चेच्यः । नेन्यः ॥१६॥
नित्यार्थ वचनम् ॥१५॥
नोतः ।३।४।१६।