________________
मूत्रिसूचीनामनेस्वरत्वात् व उर्णोतेरव्यञ्जनाद्यनेकस्वरतत्पूर्वेणाप्राप्ते वचनम् । यङोऽदन्तत्वे अटाट्यते अरार्यते इत्यत्र फलं दृश्यम् ॥१०॥
गत्यर्थात्कुटिले ।३४।११। व्यञ्जनादेरेकस्वराद् गत्यर्थात्कुटिलेएवार्थे वर्तमानाद् धातोर्य स्यात् । चक्रम्यते । कुटिल इति किम् ? भृशं कामति ॥११॥
एक्कारेण भशाभीक्ष्ण्ययोर्यङो निषेधः । कुटिलं कामति-चङ्कश्यते । “मुरतोऽनुनासिकस्य" ।४।१।५१। “तौ मुमौ व्यञ्जने० ।१।३।१४। तक्रकौडिन्यन्यायेन भूशाभीक्ष्ण्ययोनिषेधार्थ वचनम् । अयं भाव:--. देयस्मै स तक्रदेयः स चासौ कौडिन्यश्च तक्रकौडिन्यः, म.यूख्यंसकादित्वादेयशब्दलोपः स एव न्यायो दृष्टान्तः । सर्वेभ्यो ब्राह्मणेभ्यो दधि देयम् तत्रं कौडिन्याय । तत्र ब्राह्मणेषु सामान्येन कौडिन्योपि समायातः इति दधिदानं तक्रं पूर्ववाक्येन प्राप्तं परन्तु परवाक्येन विशेषतस्तस्य तक्रक्षन विहितमिति दधिदानं बाध्यते । यद्यपि दधिदानोत्तरं ततः पूर्वं वा तक्रदानमपि विधातुं शक्यते एव तथापि विशिष्य विधानसामर्थ्यात्तक्रमेव न दधि सामान्यलक्षणस्य विधेविशेषलक्षणो विधिर्बाधको भवति ॥११।।
ग लपसदचरजपजभदशदहो गये।३।४।१२।
गृहर्थेिभ्य एव एभ्यो यङ स्यात् । निजेगिल्यते । लोलुप्यते । सासद्यते। चञ्चूर्यते। जञ्जप्यते । जञ्जम्यते । दन्दह्यते । गर्दा इति किम् ? साधु जपति । भृशं निगिरति ॥१२॥
पूर्ववदत्रापि एवकारेण भृशाभीक्ष्ण्ययोर्यडो निषेधः । गहितं निगिरति-निजेगिल्यते । लोलुप्यते--लुप्लुतो छेदने लुपच् विमोहने इति वा । चञ्चूर्यते-"चरफलाम्" ४।१०५३। “जपजभ०" ।४।१।५२१. इति मुरन्तः “अडे हि हनो" ।४।१।३४। इत्यतः पूर्वादित्यधिकारात् "ति चोपान्त्या० ।४।१।५४। इति उः । 'भ्वादेर्नामिनो० ॥३१॥३६॥ इति